SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ स्पर्शमणिः मू. झवेरचंद मेघाणी अनु० रत्नकीर्तिविजयः मथुराया वृन्दावनप्रदेशः । अस्खलितप्रवाहा यमुना मन्दं प्रवहन्त्यासीत्। तस्यास्तीरे सनातनः ऋषिर्भगवन्नामस्मरणलीन उपविष्ट आसीत् । तदा किल कश्चिद् दरिद्रो ब्राह्मण आगत्य ऋषिचरणमभिवन्दितवान् । 'भाग्यवन् ! कुत आगतवानस्ति ? कः परिचयो भवतः ? - ऋषिः पृष्टवान् । ब्राह्मण उक्तवान् - दूरदेशान्तरादागतोऽस्मि भगवन् ! मम व्यथाकथा हि कथमपि वर्णयितुं न शक्या । ईश्वरोपासनानिरतोऽहं कदाचिद् रात्रौ स्वप्नमेकं दृष्टवान् । देवः कश्चिद् मां निर्दिष्टवान् यद् - 'उपयमुनं सनातनगोस्वामिनामा साधुरस्ति । तं गत्वा याच्यताम् । स हि तव दुःखं निवारयिष्यति' - इति । ऋषिरवदत् - वत्स ! यद्यपि श्रद्धयाऽऽशया च त्वमागतोऽसि । किन्तु किमहं दास्ये ? यदप्यासीत् तत् सर्वमपि परित्यज्य सर्वथा रिक्तोऽहं संसारान्निर्गतोऽस्मि । तथाऽपि तिष्ठ ! किञ्चित् स्मर्यते ! हां ! कदाचित् कस्मैचिदप्युपयोगी भविष्यतीति कृत्वा स्पर्शमणि कञ्चिदहं तत्र वालुकानामधो निगूहितवानासम् । तं च त्वं गृहाण । स तव दारिद्र्यमपहरिष्यति । विपुलं धनमपि भवान् प्राप्स्यति । 'आहा ! स्पर्शमणिः ?' ब्राह्मणः स धावन्निव ऋषिनिर्दिष्टं स्थानं प्राप्तवान् । वालुकानामधस्ताच्च तं मणि बहिः कृष्टवान् । मणेः स्पर्शमात्रेणैव ।। तस्य लौहमयोऽपि रक्षाकरण्डः (AMULET) सुवर्णमयः सञ्जातः । तेनाऽऽनन्दितः स नर्तितुं प्रवृत्तः । बहु नृत्तं तेन । नृत्यन्नेव स कल्पनाकाशे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy