________________
कथा
मुनिधर्मकीर्तिविजयः
भावनगरराज्यस्य महाराजः कस्यचित् साधुमहात्मनो दर्शनार्थं गतवान् । साधोः समीपे आसीनस्य तस्य राज्ञो दृष्टिः साधोः वस्त्रस्योपरि पतिता । तद् वस्त्रमतिकलात्मकं स्यूतमासीत् । सौचिकोऽपि समीपे एवाऽऽसीनः ।
भो ! तन्तुवाय ! किमेतद् वस्त्रं भवता स्यूतम् ?
अन्तरम्
राजा पृष्टवान् आम्, इत्युक्तं सौचिकेन ।
राजोक्तवान् - एतादृशं वस्त्रं सीवित्व मह्यमपि देयम् । अपेक्षानुरूपं मूल्यं दास्यामि ।
सौचिक आह- राजन् ! भवतः कृते यत् कार्यं तत्तु उच्चतममेव करणीयम्, न काऽपि चिन्ता कार्या ।
-
उत्साहेन निपुणबुद्ध्या च कलात्मकं वस्त्रं प्रगुणीकृत्य राज्ञे प्रदत्तवान् सौचिकः ।
Jain Education International
राज्ञा दृष्टं तद् वस्त्रम् । प्रसन्नतामनुभवतः सतोऽपि राज्ञश्चित्तं न पूर्णतस्तुष्टि प्राप्तम् । ततो राजोवाच - भो ! वस्त्रं तु कलात्मकं सीवितं, किन्तु साधोस्तस्य वस्त्रेण सदृशं नैतत् प्रतिभाति ।
सौचिकः प्रोक्तवान् - अन्नदातर् ! अत्र कलया सह मम हृदयस्य प्रेमाऽपि मीलितमस्ति । तादृशं प्रेम तु पुनः कथं जागृयात् ?
७१
For Private & Personal Use Only
www.jainelibrary.org