________________
पत्रम्
ILLLLLLLLLLLLL
मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥
र आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु ।
वयं सर्वे कुशलाः स्मः । वलसाड-नवसारी-सूरत-वटपद्र-गोधरा- - 6 इत्यादिषु नगरेषु विहरन्तो वयं पुनः कर्णावतीनगरे आगतवन्तः स्मः । विहारे ( भिन्न-भिन्न प्रकृतिवतां जनानां परिचयो जातः । तदा 'जीवनं किं, जीवनस्य सार्थक्यं च किमिति प्रश्नाः सञ्जाताः ।
यदा जीवनविषयकं चिन्त्यते तदा ज्ञायते- अहो ! कीदृशं सुन्दरं जीवनं लब्धम्, उत्तमो मनुष्यभवः परिवारश्चाऽवाप्तः । एवं सर्वमप्युत्तममनुकूलं चाऽवातं तथाऽपि जीवने कथमानन्दः प्रसन्नता च न दृश्यते ? कथमुत्साहो न सन्दृश्यते? सर्वदा मुखेषु परिश्रम उद्वेगो ग्लानिश्चैवाऽनुभूयते । प्रतिपदं विषादः क्लेशश्चैव दरीदृश्यते । सततं जीवै रोदनमेव क्रियते । एतत्त्वाश्चर्यमस्ति यद्-यद्यभीप्सितस्याऽप्रापणे तु ग्लानिर्भवत्येव कामं किन्तु मनोवाञ्छिते सिद्धेऽपि लाभान्विते च सत्यपि ग्लानो जायते मनुष्यः । किमसन्तोषो ग्लानिर्वैव जीवनं खलु ?
____ बन्धो ! जीवनं तु चक्रवत् सततं भ्रमति । न कदाऽपि गिरिवत् स्थिरं । भवति । कदाचित् सुखं कदाचित्तु दुःखं, कदाचिद् जीवने सुघटना भवति कदाचित्तु दुर्घटनाऽपि भवति । चक्रवर्तिनां महाराजानां चाऽपि जीवने एष एव क्रमः । अहो ! महात्मनामपि जीवने सुखदुःखानां चक्रं सततं भ्रमत्येव, किन्तु ते महात्मानः सर्वास्वपि परिस्थितिषु समत्वमनुभवन्तः स्थिताः सन्ति । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org