________________
सुखेऽनुकूलकाले च हसन्ति, तथैव दुःखे प्रतिकूलकालेऽपि च हसन्त्येव । अनुकूलां प्रतिकूलां च सर्वामपि परिस्थिति स्वाभाविकतयैव स्वीकुर्वन्ति । तत एव ते जीवने प्रसन्नतामनुभवन्ति । अन्यथा यद् निश्चितमस्ति तत्तु भवत्येव न कोऽपि तदन्यथाकर्तुं शक्तो भवति । कदाचित्त्वेतादृशी स्थितिर्भवति यदाऽस्माभिः कायेन धनेन वा प्राणरक्षार्थं सर्वमपि क्रियते तथाऽपि साफल्यं न प्राप्यते, तर्हि किं करणीयम् ? य एतादृश्यां परिस्थित्यामपि प्रसन्नतामानन्दं चाऽनुभवति तस्यैव जीवनं सफलं तथा वस्तुतस्स एव जीवति, अन्यथा जीवन्नपि स शवतुल्यो ज्ञेयः ।।
भो ! जीवा द्विधा भवन्ति । केचिज्जीवा उत्साहानन्द-प्रसन्नताया निधिसमा भवन्ति । कस्मिन्नपि कार्ये निरुत्साहिनो न भवन्ति, न च निराशामपि प्राप्नुवन्ति । स्वयं तूत्साहिनो भवन्ति तथैवाऽन्यानपि प्रेरयन्त्युत्साहम् । एतादृशा जीवा एव सिद्धिमवाप्नुवन्ति ।
___ भो ! श्रीकृष्णभगवन्तं स्मर । यदा पाण्डव-कौरवयोर्मध्ये भीषणं युद्धं । प्रारब्धं तदाऽर्जुनो महोद्विग्नो जातः । युद्धं न करणीयमिति हतोत्साहो जातः । । तस्मिन् काले श्रीकृष्णेनाऽर्जुनः प्रोत्साहितः । तत उत्साहितेनाऽर्जुनेन पुनः सबलं युद्धं कृतम् । अन्ते विजयोऽप्यवाप्तः ।।
एवमुत्साहिनो जनाः किं किं नाऽवाप्नुवन्ति ? यत्र यत्र गच्छन्ति तत्र तत्राऽऽनन्दस्य प्रसन्नतायाश्च सुगन्धं प्रसारयन्त्येते जीवाः । संसारदुःखेभ्य उद्विग्नजनेभ्यः कौटुम्बिकक्लेशेभ्यश्च सन्त्रस्तजनेभ्य उत्साहरूपौषधं दत्त्वा नूतनं जीवनं ददति । स्वयं हसन्ति, अन्यानपि हासयन्ति । काभ्यो दुःखपरिस्थितिभ्योऽपि । सानन्दं सोत्साहं चाऽनुकूलं मार्गमन्वेषयन्ति, किन्तु हतोत्साहीभूय मस्तके हस्तं दत्त्वा न रुदन्ति ।
केचिज्जीवास्सदा रुदन्तो निरुत्साहिनो वराकाश्च भवन्ति । कदाचिदपि नवीनरीत्या नूतनदृष्टेर्नवीनविचाराणां च चिन्तनं स्वीकारं चैव न कुर्वन्ति । कदाचित् कोऽपि जनो नवीनविचारं प्रकटयेत्तर्हि तेन को लाभो भविष्यतीत्यादिकं न चिन्तयन्ति, किन्त्वेतेनैतदहितं हानिश्च भविष्यतीति निषेधात्मकविचारा एवोद्भवन्ति तेषां मनस्सु। एवं सदा निषेधात्मकदृष्ट्यैव पश्यन्ति, वर्तन्ते चैते जीवाः । मनोहरपुष्प-मञ्जुलफला
JLLLLLLL
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org