________________
दृश्यते । यद्यपि साङ्केतिकाभिव्यक्तेरुदाहरणानि तु बहूनि सन्ति । किञ्च । (चिम्पान्झी)वानरस्य जनीनसंरचना ९८% मनुष्येण तुल्यैवाऽतस्तस्याऽऽचरणमपि तादृशं सम्भवति । ५. वैरप्रदर्शनम्
वैरस्य संवेदनं तु बहुशः प्राणिषु दृश्यते । तत्र नियमस्तु यथाक्रियं प्रतिक्रियाया अस्ति । साउदी अरबस्तानदेशे दक्षिण-पश्चिमीये पार्वतप्रदेशे बहवो बबून-वानरा वसन्ति । एकदा मार्गमुल्लङ्घयन् कश्चन बबूनवानरः केनचित् । काऱ्यानचालकेन सङ्घट्टितो मृतः । एतद् दृष्ट्वा तद्यूथीया अन्ये वानरा रुष्टा जाताः । कार्यानं त्वग्रे गतं किन्त्वेते वानरास्तस्य प्रतीक्षारताः दिनत्रयं तत्रैवोपविष्टाः । चतुर्थे दिने यदा तद् यानं प्रत्यागतं तदा तत् प्रत्यभिज्ञाय सर्वैरपि वानरैः सकोलाहलं तद् रुद्ध्वा तदुपरि शिलाखण्डाः प्रक्षिप्तास्तत्काचश्च भञ्जितः ।
वैरवृत्तिप्रदर्शने जापान्-देशस्य मकाक्-जातीया वानरा अपि प्रसिद्धाः । यदा कश्चन वानरो बलवता वानरेण जीयते तदा स जितो वानरः स्वप्रतिस्पर्धिना सह योद्धमसमर्थोऽपि वैरं गृह्णाति । स स्वमित्राणि स्वजनांश्चाऽऽहूयाऽन्यद् यूथमित्वरकालिकं रचयति । इह च सर्वत्राऽपि स पराजितो वानर एव नेतृत्वं गृह्णाति । ततः प्रतिस्पर्धिवानरस्य कञ्चिद् दुर्बलं स्वजनं धृत्वा तं सर्वेऽपि ताडयन्ति, तदपि प्रतिस्पर्धिवानरसमक्षमेव । येन तस्य प्रतिस्पर्धिनो वानरस्य भानं भवेद् यद् इदं दण्डनं तस्य पुराकृतस्य दुष्कर्मणः फलम् । एतद् दृष्ट्वा स प्रतिस्पर्धिवानरो बहुदिनानि यावत् पुनस्तस्य नामाऽपि नाऽऽदत्ते । तस्य च पराजितस्य वानरस्य वैरग्रहणस्य सन्तोषो भवति ।
वैरग्रहणे सर्वथाऽऽक्रमकः पशुरस्ति हस्ती । स वर्षाणामनन्तरमपि स्वीयं शत्रु पीडकं वा स्मृत्वा तं हन्तुं प्रयतते ।
एवं चिम्पान्झी वानरा अपि वैरिणं पीडकं वा न विस्मरन्ति । यथावसरं च तत्प्रतिशोधं कुर्वन्त्येव । ऋणस्वीकारः (आभार-प्रदर्शनम्)
समुद्रतले एकदैको हम्पबेक्-व्हेलजलचरो धीवराणां जाले पतितः कथञ्चन । जालात् स्वस्य विमोचनार्थं तेन बहु प्रयतितं, किन्तु यथा यथा प्रयतितं तथा तथा सोऽधिकतया तत्र निरुद्धः । व्हेल-जलचरो हि नाऽस्ति मत्स्यः, अतो वारं वारं
EDIA
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org