________________
नैवाऽपसृताः पदमात्रमपि । सर्वेऽपि ते वर्तुलाकारेणाऽऽरात्रि तत्रैव स्थिताः । प्रत्यूषे चैव प्रस्थिताः ।
स्वविषादप्रदर्शने हस्तिनां स्वभावस्याऽन्यदपि वैशिष्ट्यं ज्ञातव्यमस्ति । कस्यचिन्मृतस्य हस्तिनोऽस्थिपञ्जरमपि तेषां दृष्टिपथमागच्छेत् तदा तेऽत्यन्तं दुःखिता इवाऽऽहारगवेषणं प्रवासमन्यद् वा कार्यजातं स्थगयित्वा तस्य परित एव स्थित्वा बहुकालं यापयन्ति तत्र । यदि ते हस्तिनस्तत्राऽरण्ये एव वसन्तः स्युस्तदा तु ते वारं वारं तदस्थिपञ्जरस्थले आगच्छन्ति ।
चिम्पान्झी-वानरा अपि शोकस्य संवेदनं दर्शयन्ति । तथाहि - यदा कश्चिद् वानरपोतोऽकस्मान्नियेत तदा यूथस्था अन्ये वानरा दुःखिनी तन्मातरं समालिङ्ग्य सान्त्वयन्ति ।
___एतत्प्रसङ्गत्रयमपि ज्ञापयति यत् केषुचित् पशु-पक्षिषु शोकस्य संवेदनमस्ति । २. सहानुभूतेः संवेदनम्
पशवः पक्षिणो वा यथाऽन्यस्य मरणेन व्यथिताः सन्तः स्वीयशोकं प्रदर्शयन्ति तथा यदाऽन्ये पशु-पक्षिणो दुःखिताः पीडिता वा भवन्ति तदा सहानुभूतेः संवेदनमपि तथाविधाचरणेन प्रदर्शयन्ति ।
अमेरिकीये एकस्मिन् प्राणिसङ्ग्रहालये बोनोबो-जातीयश्चिम्पान्झीवानर एक आसीत् । तस्य कृते एकं काचगृहं निर्मितमासीत् यथेच्छं सञ्चरणाय च लघूपवनमप्यासीत् । एकदैकः स्टालिंग्-जातीयो लघुः पक्षी काचावरणमपश्यन् काचगृहेन सङ्घट्टितोऽभवत् । सङ्गट्टनवेदनया मानसाघातेन च स पुनरपि डयितुमशक्तः सन् भूमावेव स्थितः । एतद् दृष्ट्वा काचगृहे स्थितो वानरः शीघ्रं बहिरागतः । स तं पक्षिणं मृदुतयोत्पाट्य समीपस्थमुच्चवृक्षमारूढवान् । वृक्षोपरि गत्वा तेन शनैः शनैः तस्य पक्षिणः पक्षावुद्घाट्य स पक्षी वायौ उड्डाययितुं मुक्तः । स पक्षी हीतोऽपि स्वस्थो नाऽऽसीत्, अतः स डयितुमशक्तः सन् भूमावेव पतितः ।।
एतद् विलोक्य दयाप्लावितः सन् स तत्समीपं गत्वा तत्रैवोपविष्टः । सूर्यास्तात् किञ्चित् पूर्वं स पक्षी स्वस्थो जातः पक्षौ प्रसार्य चोडीनः । एतेन हृष्टः । स वानरस्तदनन्तरं स्वीयकाचगृहं प्राप्तः ।
एष प्रसङ्गो दर्शयति यत् जीवदयायाः सहानुभूतेश्च भावनयैव वानरः पक्षिणः सहायं कृतवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org