________________
आस्वादः
संवेदनशीलता पशु-पक्षिणाम्
मुनिकल्याणकीर्तिविजयः
द्वाविंश्यां शाखायां पशु-पक्षिणां संवेदनशालिताविषयकाः केचित् प्रसङ्गाः उल्लिखिता आसन् । अत्र चाऽन्येऽपि केचित् प्रसङ्गाः समुल्लिख्यन्ते येषु पशुपक्षिभिः स्वसंवेदनानि प्रकटं दर्शितानि ।
१. शोकस्य दुःखस्य वा संवेदनम्
यद्यप्येते जीवा स्वीयदुःखं रोदनेन विलापादिभिर्वा प्रकटीकर्तुं न समर्थाः, तथाऽपि वर्तनेनैव तेषां मनोव्यथाविषयकाः सङ्केताः प्राप्यन्ते । अमेरिकादेशे कोलोराडोराज्ये कश्चन मार्क - बेकोफ् नामकः प्रकृतिशास्त्री स्वमित्रेण सह पर्यटितुं निर्गत एकदा । अग्रे गच्छता तेन मार्गप्रान्ते पञ्च पक्षिणो दृष्टाः । तेष्वन्यतमः काऱ्यानसङ्घट्टनेन मृत आसीत् । अन्ये च चत्वारो यथाक्रमं तं सभानं कर्तुं प्रयतमाना आसन् । प्रत्येकं पक्षी तं पक्षिणं चञ्च्वा स्पृष्ट्वा तस्य सञ्चारं द्रष्टुं किञ्चिदपसरति स्म । बहुवारमेवं कृत्वाऽपि यदा स नोत्थितस्तदा चतुर्भिरप्येतैः 'स मृत' इति स्वीकृतम् । ततः श्रद्धाञ्जलिं दातुमिवैकः पक्षी उड्डीय कानिचित् तृणान्यानीतवान् मृतपक्षिणश्च पार्श्वे मुक्तवान् । एवगन्यैरपि क्रमश एतत् कृतम् । ततः सर्वेऽपि कञ्चित् कालं मौनं स्थितवन्तः । पश्चाच्चोड्डीनाः ।
हस्तिनां यूथे तु कस्यचिद् हस्तिनो मरणे जाते ईदृशमाचरणं प्राय: सर्वदा दृश्यते । आफ्रिकीयहस्तिनामभ्यासं कुर्वाणा सिन्थिआ - मोस् इत्यभिधा प्रकृतिविन्महिला स्वीयानुभवमुल्लिखति - ऋतुप्रवासार्थं विनिर्गते एकस्मिन् हस्तियूथे एका हस्तिनी मृतैकदा । तद् दृष्ट्वा सर्वेऽपि हस्तिनस्तत्रैव स्थगिता जाता: । प्रथमं तु तस्याः शवस्य परितः स्थित्वा तैः स्वशुण्डया तां जागरयितुं प्रयतितं, किन्तु यदा सा नोत्थिता तदा तां मृतां मत्वा सर्वैरपि क्रमशः शुण्डया मृत्तिकां खनित्वा तस्या उपरि पातिता तच्छवं चाऽऽच्छादितम् । ततस्त्रिचतुरा हस्तिनः निकटस्थानां वृक्षाणां काश्चिच्छाखास्त्रोटयित्वाऽऽनीतवन्तस्ताश्च तदुपरि परितश्च विकीर्णवन्तः । सूर्यास्तं यावदेतत् प्रवृत्तम् । ततो यद्यप्यग्रे गन्तव्यमावश्यकमासीत् तथाऽपि ते ततो
Jain Education International
२४
For Private & Personal Use Only
www.jainelibrary.org