________________
सङ्केतमार्गणं हि साधनाया विषयः । तस्य प्रवर्तनमद्यावधि अवशिष्टमेव ।
प्रथम तावद् ज्ञातव्यं यत् किमेतत् सुखं नाम । तदन्वेव तत् कुतः कथं . वा प्राप्यते इति ज्ञानं जायते । परं तृष्णा हि मनुष्यस्य बुद्धिशक्ति विवेकशक्ति विचारशक्तिं चाऽऽवृणोति । अपरं चैतदावरणमपि महच्चित्रं यद् लक्ष्यमत्र न विस्मर्यते किन्तु दिग्भ्रान्तो जायते जनः ।
एवं च तृष्णाप्रेरितो दिक्शून्यमेव सततं धावन्तं मनुष्यं दृष्ट्वा कविहृदयं 2 व्यथामनुभवति यद्-अनुपमशक्तिधारकोऽपि मनुष्य: किमीदृशोऽशक्त आसक्तो वा? यो हि वक्तुमभिव्यक्तुं ज्ञातुं वाऽपि न क्षमस्तस्य पशोः कृतेऽपि निसर्गः सर्वं तृणादिकं सम्पादयति तर्हि यस्याऽस्ति बुद्धिविवेको विचारो वा स मनुष्यस्तु कामं जीवनावश्यकमन्नादिकं समुपलब्धुं शक्त एव । एवं सत्यपि कस्तं दीनं विदधाति ?
हं... तृष्णैव तं दीनं करोति ‘स हि भवति दरिद्रो यस्य तृष्णा विशाला' । धनादीनामभावरूपं दारिद्यं हि कदाचिदपनेतुं शक्यम्, अपगच्छति चाऽपि तत् । किन्तु तृष्णाजनितं दारिनं तु कथमपि नाऽपगच्छति । दैन्येन मनुष्यत्वस्य गौरवं हन्यते । मनुष्यत्वस्य चोपहासो जायते ।
___ कविर्हरिणानुद्दिश्य कथयति- 'धनिषु न दैन्यं विदधति' । मार्मिकीयमुक्तिः । हरिणास्तृणार्थमेव परिभ्रमन्ति नाऽऽम्रफलार्थम् । यद्यपि प्राप्ते सति खादयेयुरपि किन्तु मार्गणं तृणानामेव । सहकारवृक्षस्य पुरतो मुखं व्यादायाऽऽम्रफलमपेक्षमाणास्तिष्ठन्तो हरिणाः केनाऽपि दृष्टाः खलु ? अपरं च निर्झरणनीरमेव ते पिबन्ति, न हि तृषिताश्च ते नालिकेरवृक्षाणां पुरतो नालिकेरजलमपेक्षन्ते ।
वने पर्यटितुं गतः कविरेतद् दृष्ट्वैव विचारितवान् स्याद् यद् - 'हन्त ! । र एष क्षुद्रोऽपि प्राणी स्वाभिमानेनाऽदीनमेव जीवनं यापयति । किन्तु मनुष्यः ? 70 म प्राप्तेषु प्राप्यमाणेषु चाऽसन्तोषवन्तोऽप्राप्तेषु अप्राष्यमाणेषु च स्पृहावन्तो मनुष्या - 2 यत्र तत्र भ्रमन्ति यस्य कस्याऽपि च पुरतो याचन्ते तृष्णातृप्त्यर्थं च स्वाभिमानं S गौरवं वाऽपि विक्रीणन्ति । एवं सत्यपि 'ते खलु पशवो वयं सुधियः !' इति किं वयं विचारयिष्यामः ?
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org