________________
चिन्तनधारा
आस्वादः
मुनिरलकीर्तिविजयः । कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्नसुलभेन । धनिषु न दैन्यं विदधति ते खलु पशवो वयं सुधियः ।।
मनुष्यो बुद्धिमान् गण्यते । तच्च सत्यमपि । न केवलमनेकशतवर्षेभ्यः किन्त्वनादितो मनुष्यस्यैव सर्वोपरित्वं प्रवर्तते । देवानपि स्वाधीनीकर्तुं सामर्थ्यं तस्य VE विद्यते । नैतावदेव किन्तु निसर्गमप्यतिक्रम्य तं वशीकर्तुं सत्त्वमपि तस्याऽस्ति । - किन्त्वेतत् सम्भावनामात्रम् । न सर्वदा सर्वत्र वैतदेतादृशं वा परिदृश्यते । यतः "प्रायो नराः स्युः प्रचुरप्रमादाः" ।
पशून् विषयीकृत्य मनुष्यजातिमुद्दिश्य कथनरीतिरादीर्घकालात् प्रचलति । प्रकारेणाऽनेन मनुष्यस्य सत्त्वमुत्तेजितं भवति । अतो बोधं गृहीत्वा स्वदिशं स्वदशां वा यः परिवर्तयति स बुधः ।
अत्र हरिणानां स्वाभाविकं जीवनं प्रस्तौति कविः । स्वाभाविकतायामेव स्वत्वस्य गौरवं विद्यते । स्वाभाविकत्वस्याऽभावः स्वत्वं नाशयति । अत्र श्लोके नाऽस्ति पशोः पशुत्वस्य वा महिमा नाऽपि च मनुष्यस्य मनुष्यत्वस्य वोपहासः । किन्तु मनुष्यस्य गौरवहीनं जीवनं व्यथयति कविम् ।
__ यथाभाग्यं सुलब्धमेव सर्वं मनुष्याणाम् । किन्तु स न प्राप्यमाणेन प्राप्तेन वा सन्तुष्टः । बाह्यपरिवेशमलङ्कर्तुं सततं यतमानो मनुष्यो व्यस्तोऽपि जातोऽव्यवस्थितोऽपि जातः । तृष्णादग्धः सततं धावति मनुष्यः किञ्चित् प्राप्तुं किञ्चिद् भवितुं वा । सङ्केतं विनैवेप्सितस्य गृहं मृगयतो जनस्येव तस्याऽपि स्थितिरस्ति । कं स मृगयतीति तु जानाति किन्तु स कुत्र वसति कुतो वा प्राप्यते इति न जानाति । एवमेव मनुष्योऽपि सुखं मृगयति किन्तु तत् कुतः कथं वोपलभ्यते इति न हार जानाति । एतदज्ञानमेव मनुष्यस्य दौर्बल्यम् । एतदेव च जीवनस्य वास्तवस्याऽऽनन्दस्य सुखस्य चाऽऽवरणमस्ति । एतेन ह्यावरणेन मनुष्यो विह्वल इवेतस्ततो निष्फलमेव धावति । अन्ततश्चोद्वेगमेव प्राप्नोति ।।
सुखस्य मार्गणं ह्यनादिकालीनसंस्काराणां विषयोऽस्ति । तत्तु सततं प्रवर्तत एव । आजन्मान्तरेभ्यस्तदविरतं प्रवर्तते । किन्तु सुखं कुतः कथं वोपलभ्यते इति
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org