________________
कूटानि (अन्तरालापा:) (अत्र त्रिषु चरणेषु प्रश्नाः, चतुर्थे च उत्तराणि)
___ डॉ. वासुदेव वि. पाठकः 'वागर्थ' महावीरस्य को मार्गः ? माता च कीदृशी मता ? कीदृशी सत्यनिष्ठाऽस्ति ? अहिंसा. परमा. शुभा ॥
सदा किं करणीयं रे ? कीदृशं जिनशासनम् ? कथं मोक्षपदं वाच्यम् ?
सत्कार्यं. सुखदं. पम् ॥ कस्सदा पूजनीयोऽस्ति ? जीवनं केन प्रोज्ज्वलम् ? सुवर्णं कीदृशं भाति ? गुरुः. त्यागेन. शोभते ॥
कस्सदैवाउनुसर्तव्यः ? सेवा कार्या कथं सदा ? कीदृशश्च सतां मार्गः ?
सज्जनः सर्वथा. शुभः ॥ याति को न शुभे मार्गे ? कस्य मार्गः शुभकर: ? अनैतिकः कथं प्रोक्तः ? दुष्टः धर्मस्य बाधकः ॥
का जिनत्वस्य केन्द्रत्वे ? शान्तिः कार्या कथं सदा ? का नीतिर्वरणीयाऽस्ति ? अहिंसा. सर्वथा. वरा ॥
.
चिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org