________________
कोडसावुत्तुङ्गमूर्धा रणभुवि परितः सैन्यसंरक्षितो राट् सामर्थ्य कस्य योद्धः कचमपि कुटिलं योऽस्य कर्तुं प्रभूयात् । बिभ्राणो राष्ट्ररागं तुमुलरणजयी नो हि नोत्ता विरङ्गः शत्रूणां यः पुरस्तादवनतिपरकः क्वाऽपि दृष्टः कदाचित् ॥५॥
वारम्वारं प्रयासैहिमगिरिशिखरे छद्मयुद्धं प्रकल्प्य जातायां वैरशुद्धौ पुनरपि रिपुभिः क्रम्यते सीमरेखा । तज्जाल्मानाच वृत्तं कुटिलमतिमतां कूटनीत्या निरस्य दन्तानाम्लान् रिपूणामतिबलसुभटैयों विधत्ते विरङ्गः ॥६॥
ओजःपूर्णा युवानोऽतुलबलभरिताः सैनिका भारतीयाः कुर्वन्तः सीमरक्षा स्थलजलगगने स्वर्गता देशभक्ताः । शोभन्ते वेष्टितास्तेऽतिधवलयशसस्तत् त्रिरङ्गध्वजेन नम्यन्ते पुण्यवन्त: सदसि मघवतो देववृन्दैः सदैव ॥७॥
भूः सस्यश्यामलाधो विकिरति हरितं यत्र वर्णं विशेष मध्ये पूर्ण हिमाद्रिस्तदुपरि धवलं रुद्रहासोपमानम् । दीप्तं काषायमुच्चैरुषसि रविरसौ तद् विहङ्गावलोके माङ्गल्यो भारतीयः क्षितिजसुफलके शोभतेऽसौ त्रिरङ्गः ॥८॥
(इति जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये साहित्यविभागस्य अध्यक्षेण,
आचार्येण डॉ. ताराशंकरशर्मपाण्डेयेन विरचितं त्रिराष्टकं काव्यं समाप्तम)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org