________________
बिरङ्गः
पो. ताराशंकर शर्मा 'पाण्डेय'
राष्ट्रस्वातन्त्र्यलब्धौ सकलजनमनोमोदकस्तोलनेन दिल्लीस्थे रक्तदुर्गे गगनतलगतो नो ध्वजोऽयं विरङ्गः । प्राच्यां दोधूयमानो दिनकरकिरणैः काशते भारतात्मा विश्वस्मिन् तेन कार्यं जगति निजशिर: प्रोन्नतं भारतीयैः ॥१॥
पृथ्वीतत्त्वं कदाचिद्धरिति च सलिलं श्वेतवर्णेऽपि तत्त्वं तेजः काषायरङ्गेऽथ चपलपवनं क्वाऽपि दोधूयमाने । विश्वोत्तुङ्गोत्तमाङ्गे हिमगिरिसदृशे व्योमतत्त्वं दधानः कः प्राणीव त्रिरङ्गे जगति विजयते पञ्चभूतान्वितोऽसौ ॥२॥
देशप्रेमप्रतीकः कृषिशमबलदो भारतप्राणभूतः संसिक्तस्वाभिमानो जनमनसि हरिच्छ्वेतकाषायवर्णी । नो राष्ट्राखर्वगर्वं कमपि च तनुतेऽशेषविश्वे ध्वजोऽयं नामं नामं वयं तं सकलसुकृतिनः स्याम नित्यं प्रमोदाः ॥३॥
कामो विष्णुः शिवो वा झषगरुडवृषानात्मवाहान् ध्वजेषु प्रादात् संयोज्य शिक्षा विकसितिसहितां लोकलोकाय दिव्याम् । तस्माद्घोरारचक्रं युगयुगलगणं धारयित्वा त्रिरङ्गे संदेशं नित्यगत्या वितरति सततं भारतं नाम देशः ॥४॥
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org