________________
कविकवयित्रीगीतम्
डॉ. आचार्यरामकिशोरमिश्रः कविरहं भवेस्त्वं कवयित्री ।
(१) शृणु सुभगे कान्ते ! मे वचनम्, त्वं भव पुत्राणां प्रसवित्री । कवयिता यथाऽहं तथा भवेस्त्वं पत्युः कवित्वजनयित्री ॥
कविरहं भवेस्त्वं कवयित्री ॥१॥
(२) अहमस्मि लिखन् कवितापङ्क्तीस्त्वं भव मात्राणां गणयित्री । न स्खलितं स्यादित्याशासे, छन्दोध्वनिलयस्य कथयित्री ॥
कविरहं भवेस्त्वं कवयित्री ॥२॥
(३)
सहचरी त्वमसि यदहं कुर्चे, त्वं भव सर्वेषां स्पृहयित्री। समये समये सहचरकार्ये, त्वं भव सर्वथा मवयित्री ॥
कविरहं भवेस्त्वं कवयित्री ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org