________________
श्रीजिनेश्वप्रार्थनम्
मुनिकल्याणकीर्तिविजयः । (रागः यमनकल्याणः) जय जय जगदानन्द ! जिनेश्वर !
जय जय भुवनविबोधदिनेश्वर ! मम शरणं तव चरणयुगं जिन ! मम ध्यानं तव वदनमवृजिन ! । मम ध्येयं तव रूपं सार्व ! मम धेयं तव वचनमगर्व ! ॥१॥
वर्षतु मयि तव कुणावृष्टिः सततं भवतु समतापुष्टिः । प्रवहतु हृदि मे शुद्धा दृष्टि:
द्रुतं विनश्यतु ममताकृष्टि: ॥२॥ त्वदीयभार्गानुसरणकामो वर्तेऽहं परमवगुणधाम । कदा भविष्याम्यात्मारामः निजरूपैकपरिज्ञाकामः ॥३॥
वेदान्त्यभिमतमायां मोक्तुं साङ्ख्यसम्मतां प्रकृतिं त्यक्तुम् । बौद्धवासनां संपरिहर्तुम्
उत्कोऽस्मि स्वगृहं प्रतिगन्तुम् ॥४॥ निजगृहमेव मे निलयो भवतु । विश्वे यद्यपि प्रलयो भवतु त्वयि मम मनसो विलयो भवतु सत्कल्याणं श्रेयो भवतु ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org