SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Note) शासनसमाउभिनन्दनम् Crele पं. शोभाकान्त-झा-मैथिलः श्रीजिनः शरणम् ॥ __ तपोगच्छाधिपति-महामहोपदेशक-जैनशासनसम्राट्-पण्डितमण्डलीपुण्डरीकमार्तण्ड-श्री १०८ युतविजयालङ्कृतनेमिसूरिमहानुभावानां तथा तच्चरणारविन्दलब्धप्रथितयशसां श्री१०८ युतविजयोदयसूरिमहाशयानां तथा श्री१०८ युतविजयनन्दनसूरिमहोदयानामन्तिके अभिनन्दनम् ॥ प्रोद्यद्विद्यानवद्यधुतिदलितमनोध्वान्तसन्तानराशिः साशीर्वादोपदेशैः पिहितमतिजनानुलयन् भूतलेऽस्मिन् । गाम्भीयौदार्यपुञ्जानुपमविभवाम्भोजभाजो विवस्वान् तर्कालङ्कारदीप्तो विजयपदसुयुक् राजतां नेमिसूरिः ॥१॥ विज्ञस्वान्तसरोजवर्तिविलसद्-रोचिष्णुजिष्णुप्रभाबिभ्रच्चारुसुधर्मलक्षवचनप्रक्षालिताज्ञानभूः । जीयाद् भारतवर्षभाग्यमिहिरो मोहाध्यविध्वंसकः तीर्थोद्धारपरायणो विजययुक् सूरीशनेमिप्रभुः ॥२॥ श्रीमन् ! त्वादृशनैगमादिनिपुणो वाचा च वाचस्पतिः तोषे शम्भुसमः कृतौ विधुसमः रक्षासु सूर्योपमः । कीर्त्या विश्वजयी जगद्गुरुवस्तत्त्वार्थसन्दर्भकः नैव क्वाऽपि समीक्षितः क्षितितले नो वा च सन्द्रक्ष्यते ॥३॥ ध्यानाराधनलब्धशारदकलाजेगीयमानस्तुति कल्याणाकुररक्षदक्षसुधियं श्रीमन्तमेकं कलौ । __ श्रायं श्रायमवैति विज्ञपटली तोषाम्बुजं रोचकं एतल्लोकविलासलालसमना अन्यत्र निःश्रेयसम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy