________________
सत्पादपङ्कजपरागकपावनक्ष्मं स्फारापपाशवचनव्रजराजवक्त्रम् ॥ कर्माशयक्षपणलब्धवरापवर्गं भाभाख्यपार्श्वमहमामहरं प्रपन्नः ॥ १० ॥
॥ अथ स्तुत्यनामगर्भो बीजपूरकप्रबन्धः ॥ जगद्भास ! तमोहार ! जनभानकरेश्वर ! ॥ जय मारमदोद्धार ! जय देव ! शमाकर ! ॥११॥
Jain Education International
॥ अथ कविनामगर्भश्चक्रबन्धः ॥
यः स्वैरं रमते गुणैर्हतमदः पार्श्वः प्रभावोदयः । शोषः कर्मचयस्य बोधितजनः कल्याणके लीगृहम् ॥ विश्वश्रेष्ठगुणः प्रकाशितमहत्सिद्धान्तसारागमः । जन्तूद्धारकरो वरः कृतपदो निर्वाणगेहेऽवतात् ॥ १२ ॥ श्रीनेमिसूरिसाम्राज्ये यशोविजयसाधुना ॥ रचिता स्तुतिराकल्पं पठ्यतां सर्वकामदा ॥ १३॥ भणन्ति सुधियः स्तोत्रमेतत्पार्श्वस्य ये भुवि ॥ ते वैभवभरा यान्ति महोदयफलं परम् ॥ १४ ॥
प्राज्ञानन्दपदं स्तोत्रमेतद्भव्यसुखावहम् । पठ्यमानं जनैः सर्वैर्वृद्धिं प्राप्नोतु सर्वदा ॥१५॥
इति श्रीकविपण्डितकुलहृदयसरसीरुहभृङ्गायमाणप्रबलकलिकलुषप्रकम्पननिरोधसुसाधुजनशिखरिशृङ्गायमाणश्रीमद्विजयनेमिसूरीश्वरचरणशरणयशोविजयविरचितायां
wholly
स्तुतिकल्पलतायां तृतीयस्तबके इकारादिस्वररहिताकारान्तपदकदम्बमयभाभापार्थ्याष्टकं श्रीमद्विजयने मिसूरीश्वरप्रसादात् समाप्तम् ॥
For Private & Personal Use Only
www.jainelibrary.org