________________
Jain Education International
AN
श्रीभाभापार्श्वनाथस्तोत्रम्
(इकारादिरहिताकारान्तद्वितीयादि पदैर्विरचितम्)
अकारान्त-द्वितीयान्तपदैरर्थप्रगुम्फितैः । सुरासुरनरस्तुत्यं हतकर्मव्रजं विभुम् ॥१॥
स्व. प्रवर्तक मुनिश्रीयशोविजयः
न विद्यन्ते स्वरा यत्र इकाराद्या बुधेश्वर ! पदैरेवंविधैः स्तोष्ये पार्श्वं भाभाभिधानकम् ॥२॥ युग्मम् सारं भयापारपयः प्रतारयानं जगज्जन्मजराप्रणाशम् ॥ आनन्दकन्दप्रभवप्रवार्दं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥३॥
माङ्गल्यकारं हतमानसारं पापापहारं गतकर्मभारम् ॥ सन्त्रासवारं मदपाशहारं भाभाख्यकं पार्श्वमहं प्रपन्नः || ४ || ज्ञातार्थजालं जनवारपालं सर्वाक्षदानं सकलप्रकान्तम् ॥ मायानलव्रातजलप्रपातं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥५॥ आमप्रणाशं वरदानदक्षं दग्धामयव्रातबलापकक्षम् ॥ नष्टान्तरङ्गासहनप्रपक्षं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥६॥ शश्वत्प्रजप्यं सततं प्रकाम्यं ब्रह्मप्रदानं पुरुषप्रधानम् ॥ परान्नशक्रं गतपाशचक्रं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥७ ॥ माङ्गल्यमालं सकलप्रपालं प्रकान्तभालं गतगर्त्यकालम् ॥ अस्तप्रपञ्चं प्रवराग्रयवाचं भाभाख्यकं पार्श्वमहं प्रपन्नः ॥८॥
अज्ञानकाननधनञ्जयमाप्तमह्यं मारान्धकारशमनप्रबलार्क कल्पम् ॥ संसारचण्डगददस्रसमप्रभावं भाभाख्यपार्श्वमहमामहरं प्रपन्नः ॥९॥
४
For Private & Personal Use Only
www.jainelibrary.org