________________
सुयलाभे न मज्जेज्जा ॥८-३०॥ श्रुतलाभेन न मायेत् ॥
(सं.)
अधुवं जीवियं नच्चा सिद्धिमग्गं वियाणिया ।
विणियट्टेज्ज भोगेसु आउं परिमियमप्पणो ॥८-३४॥ (सं.) अधुवं जीवितं ज्ञात्वा सिद्धिमार्ग विज्ञाय ।
विनिवर्तेत भोगेभ्यः आयुः परिमितमात्मनः ॥
जरा जाब न पीलेइ वाही जाव न वड्ढई ।
जाबिंदिया न हायंति, ताव धम्म समायरे ॥८-३५॥ (सं.) जरा यावल पीडयेत्, व्याधिर्यावन्न वर्धेत ।
यावदीन्द्रियाणि न हीयन्ते, तावद् धर्मं समाचरेत् ॥
कोहं माणं च मायं च, लोभं च पापवड्ढणं ।
वमे चत्तारि दोसे उ, इच्छंतो हियमप्पणो ॥८-३६॥ (सं.) क्रोधं मानं च मायां च, लोभं च पापवर्धनम् ।
वमेत् चतुरोऽपि दोषान् इच्छन् हितमात्मनः ॥ कोहो पीइं पणासेइ, माणो विणयनासणो ।
माया मित्ताणि नासेइ, लोहो सब्वविणासणो ॥८-३७॥ (सं.) क्रोधः प्रीतिं प्रणाशयति, मानो विनयनाशनः ।
माया मित्राणि नाशयति, लोभः सर्वविनाशनः ॥
उसमेण हणे कोहं, माणं मद्दवया जिणे ।
मायं चज्जवभावेण, लोभं संतोसओ जिणे ॥८-३८॥ (सं.) उपशमेन हन्यात् क्रोधं मानं मार्दवेन जयेत् ।
मायां चाऽऽर्जवभावेन लोभं संतोषतो जयेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org