________________
ते व्याकुला भीता वराका दीनवदनाश्च भवन्ति, किन्तु ये ज्ञानिनः पण्डिताश्च सन्ति ते तु प्रशमभावे रमन्ते । व्याधिरपि कर्मक्षयस्य कारणमस्ति तथा देहासक्तेहसिस्याऽपि निदानमस्तीति ते मन्यन्ते । मरणशय्यायामालुठन्तः सन्तोऽप्येते न भीता अस्वस्थाश्च भवन्ति, तत एव ज्ञानिजनैरेतद् मरणं प्रशंसितम् । जैनेषु जन्म विविधबन्धनानां हेतुरस्ति ततो जन्म हेयरूपेणाऽङ्गीक्रियते । समाधिमरणं पण्डितमरणं त्वाधिव्याधि-उपाधियुतस्य संसारस्य बन्धनेभ्यो मुक्तिं ददाति तत एव तदुपादेयरूपेणोररीक्रियते । येन जीवेनैतद् समाधिमरणमवाप्तं तस्य संसारः परिमितो भवति । उक्तं च
एकं पण्डितमरणं प्रतिपद्यते सुपुरुषोऽसंभ्रान्तः ।
क्षिप्रं सोऽनन्ताना-मन्तं करोति मरणानाम् ॥ 'अन्ते समाहिमरणं अभव्वजीवा ण पावेंति'त्ति वचनाद् ये केऽपि जीवा एतादृशं समाधिमरणं नाऽवाप्नुवन्ति, किन्तु भव्यजीवा एव पण्डित-(समाधि)मरणं प्राप्नुवन्ति । जगति सत्ता प्रतिष्ठा सम्पत्तिर्महत्ता सुखमनुकूल-कौटुम्बिकाश्चेति सर्वमपि सुलभं, किन्तु समाधिमरणं तु दुर्लभमस्ति । तत एव विद्वद्भिः सूरिपुङ्गवैश्चाऽपि समाधिमरणमेतद् याचितम् । प्रायो जैनधर्ममङ्गीकुर्वद्भिः सर्वजनैः श्रीतीर्थकराणां समक्षं समाधिमरणं नित्यं याच्यते । समाधिमरणं येनाऽवाप्तं तस्य प्रशंसां विबुधा अपि कुर्वन्ति तथा स एव श्लाघनीयः पुण्यवाँश्च मन्यतेऽमरैः । यस्य जीवने सरलता निरभिमानिता दम्भशून्यता च, व्यवहारे औदार्य, वाचि सत्यता मधुरता च, चित्ते करुणा समभावश्च वर्तन्ते स एव समाधिमृत्योरधिकारी भवति । समाधि विना केवलं ज्ञानेन तपसा क्रियया भक्त्या च किम् ? एतत् सर्वमपि समाधिप्राप्तेः साधनमस्ति । बहुकोटिवर्षाणि यावदाचरितेनाऽपि ज्ञानादिधर्मेण यो लाभोऽवाप्यते ततोऽप्यधिकं लाभं मत्योरन्तिमक्षणे समाधिभावे रममाणो जनः प्राप्नोति-इति समाधिमरणस्य महत्ता गीयते ज्ञानिभिः । उक्तं च
यत् फलं प्राप्यते सद्भि-व्रतायासविडम्बनात् ।
तत् फलं सुखसाध्यं स्याद् मृत्युकाले समाधिना ॥ अस्माभिर्ज्ञानादिकस्याऽवाप्त्यर्थं बहवः प्रयत्नाः क्रियन्ते, किन्तु समाधिप्राप्त्यर्थं कि विधीयते ? उद्वेग-क्लेश-सन्ताप-राग-द्वेषेषु निरन्तरं रममाणैरस्माभिः समाधिः कथं कदा वाऽवाप्स्यते ? अस्मिन् कालेऽपि समाधिभावे विलसन्तो बहवो जीवा विद्यन्ते । एते तु प्रसिद्धि-महत्त्वाकाङ्क्षाया दूरमेव
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org