SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मरणं समाधिश्चाऽपि भगवत्पार्वे प्रार्थितः । श्रीमहावीरभगवता श्रीउत्तराध्ययनसूत्रे मरणमुद्दिश्यैवैकमध्ययनं प्ररूपितम् । तत्र मुख्यतया बालमरणं पण्डितमरणं चेति मरणं द्विविधं निर्दिष्टम् । तत्र सदसद्विवेकविकलानां विषयाभिष्वङ्गतो मरणमनिच्छतामविरतानां च बालजीवानां मरणं बालमरणमुच्यते । यथा संयमयोगैर्विषण्णा अतिदुश्चरं तपश्चरणमाचरितुमक्षमा व्रतं च मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो नियन्ते यत्तद् वलनांसंयमात् निवर्तमानानां मरणं वलन्मरणम् । इन्द्रियविषयवशगताः स्निग्धदीपकलिकावलोकनाकुलितपतङ्गवद् म्रियन्ते यत्तद् वशार्तमरणम्। दर्शनज्ञानचारित्रविषये लज्जया सातर्द्धिरसगौरवेण बहुश्रुतमदेन च यद् दुश्चरितं तद् गुरुभ्यो न निवेदयति यस्तस्य मरणं सशल्यमरणम् । यस्मिन् भवे वर्तते जन्तुस्तद्भवयोग्यमेवाऽऽयुर्बद्ध्वा पुनस्तत्क्षयेण म्रियमाणस्य तद् भवमरणमित्यादि । एवं बाह्यदृष्ट्याऽपि बालमरणमनेकविधमस्ति । यथा गर्भे एव मरणं, गर्भपाते कृते सति मरणं, मन्त्रतन्त्रादिप्रयोगैमरणं, जनन्या स्तनपानाद् विमुक्ते सति मरणं, योगिन्यै बलिरूपेण दीयमाने सति मरणं, ज्वर-भगन्दर-कुष्ठरोगादिभिर्मरणं, सिंहादिक्रूरप्राणिभिः मरणं, वज्र-असि-बम-भुषुण्डिप्रमुखसाधनैर्मरणं, भृगुपातेन मरणं, विषभक्षणेन मरणम्, इष्टवियोग-अनिष्टसंयोगादिना मरणम्-एतत्सर्वमपि मरणं बालमरणमुच्यते । एतत्तु संसारस्य कारणमस्ति । तत एव बालमरणमप्रशस्तरूपेण वर्णितमस्ति । किं नाम पण्डितमरणम् ? सर्वसावधनिवृत्तिमभ्युपगतानां श्रद्धावतां सञ्चिततपोधनानां व्रतनियमसंयमरतानां मरणं प्रत्यत्रस्तानां च तथा मरणेऽप्यपहतमोहरेणुतयाऽनाकुलचेतसां सम्यग्दृष्टीनां जीवानां मरणं पण्डितमरणमुच्यते । एवमेतेषां जीवानां चित्तस्य परिणतिः स्फटिकवदायुःक्षयकालेऽपि निर्मलाऽस्ति । पूर्वकृतानि पापकर्माणि निन्दन्तः, सर्वान् जीवान् क्षममाणाः, अर्हदादीनां मङ्गलशरणं स्वीकुर्वन्तः, नमस्कारमहामन्त्रं स्मरन्तश्च प्रशमभावेन सहजतया च मृत्योः स्वीकरणं कुर्वन्ति जीवा एते । "मृत्युरवश्यंभावी, जातस्य हि ध्रुवो मृत्युः, अस्मिन् लोके एकमपि स्थानं नाऽवशिष्टं यदस्माभिरनन्तशो जन्ममरणैर्नाऽवाप्तम्", इत्येतानि वचनानि तु सर्वैरपि स्वीक्रियन्ते तथाऽपि बालजीवा यदा व्याधिग्रस्ता भवेयुस्तदा २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy