SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पा समाधिमृत्युः आस्वादः मुनिधर्मकीर्तिविजयः प्रक्षालिताघपङ्का ये मृताः पण्डितमृत्युना । सतां ते हर्षदातारो न तु शोच्याः कदाचन ॥ सर्वेषामपि जनानां मृत्युनिश्चितोऽस्ति । यो जातस्तस्य मृत्युरस्त्येव एष तु सृष्टिक्रमोऽस्ति । यद्येष क्रमो न स्यात्तर्हि संसार एव न स्यात् । संसारो नाम जननं मरणं चैव । यावत् शिवसुखं न लब्धं तावच्चतुर्पु गतिषु भ्रमणं करणीयमेवाऽस्ति । श्रीमहावीरविभुर्बुद्धो रामः कृष्णश्चेति सर्वैरपि महापुरुषैरेतैरेतद् मरणदुःखमनुभूतमेव। अद्य 'मृत्यु'शब्दो बहुपरिचितः सहजश्च जातोऽस्ति । प्रतिदिनमनेकेषां जनानां मरणं भवति । तत्र कदाचिद् मित्राणि, कदाचित् स्नेहिनः, कदाचित् परिचिताः कदाचित्त्वपरिचिताश्च जना म्रियन्ते । प्रातःकालादारभ्य स्वपनपर्यन्तं "ह्य एष मृतः, अद्यैष मृतः, अद्यैष आसन्नमरणोऽस्ति" इति वाक्येषु मरणशब्दोऽनेकशः श्रुतिपथमायाति । अद्य जनके जीवति सति पुत्रो म्रियते, वृद्ध मृत्युशय्यायामालुठति सति बलिष्ठः स्वस्थश्च युवा म्रियते, पुत्रादित्रयं विहाय जननी मृत्युमाप्नोति, कुटुम्बस्याऽऽधाररूप एकाकी पुत्रो म्रियते तदा गृहस्याऽन्यजना निराधारा भवन्ति - इत्यतीव करुणाजनिका दुःखदाश्च घटना निरन्तरमनुभूयन्तेऽस्माभिः, तथाऽपि मनस्युवेगो हृदि च सन्तापो नाऽनुभूयते । अद्य वयं सर्वेऽपि संवेदनबधिराः प्रेमशून्याः करुणाविहीनाश्च जाताः । संवेदना प्रेम करुणा च जीवनस्य प्राणाः सन्ति । ते एव यस्य हृदये न सन्ति ते जीवन्तः सन्तोऽपि मृता इव ज्ञेयाः । जीवच्छवतुल्या वयं सर्वेऽपि वसामः । अद्याऽहर्निशं संसारस्याऽसारताज्ञापिका बोधदायिन्यश्च बहव्यो दुर्घटना घटन्ते तथाऽपि संवेदनाशून्यत्वाद् मनसि लेशोऽपि बोधो नोज्जागर्ति, न च चित्ते उद्वेगो हृदि च सन्तापोऽनुभूयते । पूर्वस्मिन् काले तु मृत्युशब्दं निशम्यैव जनैर्मनसि खिन्नता संसारस्य च नश्वरताऽनुभूयते स्म तथा तत्क्षणे एव-परश्वो मेऽपि मरणं सम्भवेत् - इति विचिन्त्य जना धर्मकार्येषु मनो निमज्जयन्ति स्म, क्लेश-उद्वेग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy