________________
arro 10 जन
'अत्यन्तं शोभनम् । किन्तु, अत्राऽन्तरे किं चपकस्य माने वृद्धिर्हानिर्वा स्यादपि ?'
"नैव ।' _ 'अथोच्यताम्-मम हस्ते पीडा किमर्थमुत्पन्ना ? पीडातो रक्षणार्थं मया किं कर्तव्यमासीत् ?'
'सरलमेतद्, चषकोऽधः स्थापयितव्य आसीत् ।'
'अत्युत्तमम् ! अस्माकं जीवनेऽप्युत्थीयमानेषु प्रश्नेष्वप्येष एव न्यायः समापतति । यदि ते प्रश्नाः स्वल्पमेव कालं मनसि तिष्ठेयुः, न काऽप्यापत्तिः । यदि किञ्चिदधिकं कालं तानधिकृत्य विचार्येत तर्हि ते पीडामुत्पादयन्ति । एवं सत्यपि यदि भवन्तः सावधानीभूय ततो न मुक्ताः स्युस्तहि ते पक्षाघातमिव किञ्चित् सञ्जनयिष्यन्ति । अन्यत् किमपि कार्यजातं कर्तुं नाऽलं भविष्यन्ति भवन्तः । जीवनप्रश्नानधिकृत्य विचारणं यद्यपि महत्त्वपूर्णं किन्तु समयेन सह तेषामुपेक्षणमपि तावन्महत्त्वपूर्णमेव । येनाऽऽगामिनि काले समुत्थीयमानानां नवानां प्रश्नानां सम्मुखीकरणे निर्भाराः सन्तः सज्जा भवन्तः स्युः ।'
इति अध्यापकस्य निरूपणेन सहैव समग्रोऽपि वर्गो हस्ततालैः सम्भृत इव सञ्जातः ।
एष दृष्टान्तः सर्वमपि सूचयत्येव । नाऽधिकमत्र किमपि वक्तव्यमस्ति ।
प्रकाशमभ्यस्यतु नाम विद्या सौजन्यमभ्यासवशादलभ्यम् । कर्णी सपत्न्यः प्रविशालयेयुविशालयेदक्षियुगं न कोऽपि ||
[सुभाषितरत्नभाण्डागारे]
arra
A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org