________________
SUE Tandon
पृष्टः स तां यष्टिं तस्यै आर्पयत् । ईक्षुयष्टिं दृष्ट्वा प्रदीप्तकोपा सा तां यष्टिमुत्पाट्य 10 तस्य शिरसि प्रहृतवती । प्रहारेण तेन यष्टे गद्वयं सञ्जातम् । तद् दृष्ट्वा तुकारामो
हसन्नेवोक्तवान् - 'हम्..... अहं जानामि स्मैव यद् भवती नैकाकिनी कदाऽपि भक्षये'दिति ।
एतादृशोऽपि जना विद्यन्ते ये ईदृशीमपि समस्यामविगणय्य जीवनं am स्वस्थतयैव यापयन्ति। अत्र समस्यां प्रति तेषामभिगम एव कारणम् ।।
अध्यापकः कश्चिद् विद्यार्थिन उद्दिश्य विषयमेनमधिकृत्य यत् शिक्षितवान् ब तद् वयमपि पश्यामः -
__ अध्यापकस्य वर्गप्रवेशेन सहैव शान्तिः प्रसृता । सर्वेऽपि साश्चर्यं दृष्टवन्तो यदद्याऽध्यापकस्य हस्ते दुग्धचषकोऽस्ति । आगमनेन सहैवाऽध्यापको वर्गं पृष्टवान्
मया गृहीतस्य दुग्धपूर्णस्याऽस्य चषकस्य भारः कियानिति किं भवन्तः ८ कल्पयितुं शक्नुयुः ?
अधिकेनाऽऽश्चर्येण सर्वेऽपि १०० ग्राम-१५० ग्राम-इत्यादीन् विभिन्नान् प्रत्युत्तरान् प्राददुः ।
यावदेनं चषकं न तोलयेयं तावदस्य निश्चितं परिमाणं ज्ञातुं न शक्यम् । | सत्यं किल?'- अध्यापक उवाच ।
"सत्यमेव' - सर्वेऽपि सहैव प्रत्युदत्तरन् । 'अथ, चषकमेनं यद्यहं हस्त एव कतिपयनिमेषान् यावद् गृह्णीयां, तर्हि ?' "किमपि नवीनं नैव भवेत् !' - कश्चिदवदत् । 'हममम्..., अथ यदि चषकमेनं घण्टापर्यन्तं गृह्णीयां, तर्हि ?' 'तर्हि हस्ते पीडा समुद्भवेत् ।'
'सत्यम् । किन्तु, आदिनं यद्यहं चषकमेनं गृहीत्वा तिष्ठेयं तदा कः परिणामः ?'
_ 'महोदय ! तथा तु भवतो हस्तो जड एव स्यात्, कदाचित् पक्षाघातोऽपि ८ स्यात् । चिकित्सालये तु गन्तव्यमेव स्यात्....' । - अनेन प्रत्युत्तरेण समग्रेऽपि
वर्गे हास्यं प्रसृतम् ।
are
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org