________________
SARAITANTRIKARIORRERAPRAHARARATTIHARIES
क्षुद्धता-कुलकम् ॥
OUNTROP4
UARAN
-- विजयशीलचन्द्रसूरिः
॥१॥
રો
॥३॥
લોકો
शास्त्रेषु क्षुद्रता दोषः, संसारे सा गुणोऽधुना । कानिचित् तत्स्वरूपाणि, वर्ण्यन्तेऽत्र मया बुध ! औद्धत्यं क्षुद्रतारूपं, कौतूहलमथाऽपरम् । चाञ्चल्यमथ चौत्सुक्यं क्षुद्रतैव, विदाकुरु प्रतिक्रिया क्षुद्रताया रूपमस्ति सखे ! तथा । उपहासोऽपि तद्रूप-मात्मश्लाघाऽपि सैव भोः ! अहङ्कारः क्षुद्रताया रुपमस्ति भयानकम् ।। तिरस्कारोऽपि तद्रूप-मित्यवेहि सख्ने ! खलु । असूया कथ्यते सा यद्, गुणानां दोषवादिता । क्षुद्रता साऽस्ति, दोषाणां पक्षपातोऽपि क्षुद्रता निन्दा रेषां क्षुद्रत्वं, प्रतप्तिरपीह तत् ।। ईर्ष्या द्वेषश्च शठता, तस्या रूपाणि त्रीण्यपि भयं भयङ्करं रूपं, क्षुद्रताया अवेहि रे ! । जुगुप्सा चाऽपि तद्रूपं निकृष्टं च घृणास्पदम् घृणा निष्ठुरता क्रौर्यं दैन्यं लोलुपता तथा । लघुता-गुरुताख्ये द्वे ग्रन्थी, क्षुद्रत्वभाक् समम् आशुतोषित्व-रोषित्वे रूपे द्वे क्षुद्रतावतः । असभ्यभाषा दम्भश्च स्वरूपमपि तस्य भोः !
॥५॥
પાછો
॥॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org