________________
अपारे संसारे विषयभुजगाक्रान्तमनसा मया भ्रामं भ्रामं स्थगितमिव ते पादयुगले । प्रपन्नोऽस्मि ब्रह्मन् ! वितर शरणं शान्तमनसामसौ पार्श्वस्वामी दिशतु विमलां मोक्षपदवीम् ॥५॥
2AL
जगन्मातुर्मातुर्यदवधि वसन् गर्भकुहरे भवान् सर्पो भूत्वा नयनविषयो जात इति यत् । ततः पार्श्वेत्याख्यां भजसि यदहो तातकलितामसौ पार्श्वस्वामी दिशतु विमलां मोक्षपदवीम् ॥६॥
जने श्रावं श्रावं जिनविषयकोलाहलमसौ जनुर्लब्ध्या लोके सकलजनतायामसुलभैः । यथावद् व्याख्यानैः पुनरपि समृद्धिं समनयलसौ पार्थस्वामी दिशतु विमलां मोक्षपदवीम् ॥७॥
जनानां स्तोतॄणां वितरति यथेष्टं शुभफलं न तेषां स्वर्लोके ऽप्यसुलभगतिर्या(र्जा)तु भवति । न वा मोक्षस्तेषां भवति दुरवापो विनमतामसौ पार्थस्वामी दिशतु विमलां मोक्षपदवीम् ॥८॥
WA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org