________________
श्रीपार्श्वनाथस्तुत्यष्टकम्
अज्ञातनामा विद्वान् *
(शिरवरिणी च्छन्दः)
महाराजवाजप्रणतिरतिलोलाड़ितशिरोमणिवातच्छायाञ्चितचरणपढेरुहयुगः । महामोहध्वान्तप्रशमनपटिष्ठः सुकृतिनामसौ पार्थस्वामी दिशतु विमलां मोक्षपदवीम् ॥१॥
कृपापारावारः प्रणतजनदुःखौघगहनप्रणाशे दावाग्निः श्रुतिपथगतः शुद्धचरितः । नमलोकस्वान्ते तनितसुखसङ्घः प्रभुवरो ह्यसौ पार्श्वस्वामी दिशतु विमलां मोक्षपदवीम् ॥२॥
पितुः सेनादवादलभत जनुभूपतिलकादवामाद् वामाया भुवनजयिनो गर्भकुहरात् । नमस्यायां कस्यां सकलजननेत्रोत्सवकरः सदा पार्श्वस्वामी दिशतु विमलां मोक्षपदवीम् ॥३॥
विधेः काठिन्येन प्रबलतररेखाजनितया विपद्वल्ल्या शश्वत् परिभवशतैर्बाधितवताम् । जनानामुद्धर्तुं य इह शरणो भक्ति भजतामसौ पार्थस्वामी दिशतु विमलां मोक्षपदवीम् ॥४॥RORA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org