________________
र श्रीवी
अष्टप्रातिहार्योल्लसितश्रीवीतरागस्तुतिः
- मुनिकल्याणकीर्तिविजयः
गायन्निवालिविरुतैः प्रचलदिः पत्रैनृत्यन्निवाऽपि मुदितो ननु चैत्यवृक्षः । रक्तोऽपि यस्य गुणरागितयेव भाति । तं वीतराग-वृजिनं जिनपं नमामि ॥१॥
आ-योजनं सुमनसो विपरीतवृन्ताः यत्पुण्यतः क्लमकणं न समाप्नुवानाः । यद्देशनाभुवि सदा विकिरन्ति देवाः तं वीतकल्मषचयं मुनिपं स्मरामि ॥२॥
यदिव्यवाचमिह मालवकैशिकीतिसद्ग्राम-रागकलितां सुपवित्रीभूताम् । हृष्टा मृगाः श्रवणतो तु पिबन्ति मुग्धा तं वीतरोषधिषणं शमिनं नमामि ॥३॥
यत्पार्श्वयोर्विधुमयूखसिता चकास्ति सच्चामरावलिरतीव सुवर्णरम्या । हंसालिरेव नु मुखाम्बुजसेवनाय तं वीतमोहमनघं हृदये दधामि ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org