SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कथा। ॥ तक्रयोग्यं रामायणम् ।। -मुनिधर्मकीर्तिविजयः आसीत् रमणीयमेकं नगरम् । तत्रैको नर्मदाशङ्करनामा ब्राह्मणोऽवसत् । तस्य भार्या मङ्गलाऽऽसीत् पुत्रश्च कपिल:। तेन ब्राह्मणेन गृहे एका पीना गौ: पालिता आसीत् । ततो गृहे सर्पिः, नवनीतं पयश्च सर्वदोपलभ्यमानान्यासन् । तक्रमपि प्रतिदिनं प्रचुरं लभ्यते स्म । ततः स निजप्रातिवेश्मिकेभ्य: प्रतिदिनं तक्रमयच्छत्। ___ एकदा तन्मनसि विचार: स्फुरितो, यद् - 'विना मूल्यं तक्रस्य दानं नोचितम् । ततस्तस्य किमपि मूल्यं ग्रहीतव्यम् । किन्तु, शास्त्रे तक्रं न कदाऽपि विक्रेयम् । यस्तक्रात् प्रति धनं गृह्णाति स नरकं गच्छती'त्युक्तम् । तत: केनाऽप्युपायेन तक्रमूल्यं ग्रहीष्यामि।' अथैकदा तन्निकटवर्तिप्रातिवेश्मिकस्तकं ग्रहीतुं तत्पार्श्वमागतः। तस्य ब्राह्मणस्य च चिरात् परस्परं वैरमासीत् । तं दृष्ट्वा ब्राह्मणेन कथितं -“भो मित्र! अद्यप्रभृत्यहं विना मूल्यं तक्रं नो दास्ये। किन्तु यदि त्वं सम्पूर्ण रामायणमश्रावयिष्यस्तर्हि ते विना मूल्यं तक्रमार्पयिष्यम् ।” वञ्चनापटुर्ब्राह्मणोऽजानादेव यत् - 'को मूर्खः योऽल्पतक्रार्थं रामायणं श्रावयेत् ? स नूनं मे किञ्चिद् धनं दत्त्वा तक्रं ग्रहीष्यति । अतस्तेन ‘सर्पोऽपि न म्रियेत, यष्टिरपिन भज्येते'त्युक्ति मनुसृत्यैव तस्य रामायणं श्रावयितुं कथितम्। किन्तु सोऽपि तक्रार्थी सुचतुर आसीत् । स आह - “ भो ब्राह्मण! यदि तव रामायणस्य शुश्रूषाऽस्ति तदा सावधानीभूय शृणु।” आदौ रामतपोवनाधिगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् । वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं पश्चाद् रावण-कुम्भकर्णहननं एतद्धि रामायणम् ॥ ७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy