________________
एवमेव प्रभूतकालो व्यतीतः। तथाऽपि स क्षेमान्वितो वर्तते । श्रद्धापूर्वकं तपस्तपता तेन दिव्यदृष्टिः प्राप्ता। ईश्वर इव ज्ञानवानभवत् । स्वसङ्कल्पानुसारं सर्वं द्रष्टुं श्रोतुं च समर्थोऽभूत् । कस्य-चिदपि च कालस्य वृत्तान्तं ज्ञातुं स प्रभुरभूत्।
एतादृशा ज्ञानेन तेन ज्ञातं, यद् ‘कस्मैचिदपि राज्यं धनं वा दातुमहमिच्छेयं तर्हि तन्मम वाण्या शक्यमस्ति । मद्वचनं चाऽमोघं भूतम्।'
अथ स कुण्डधारोऽप्येवंरीत्या तप: कुर्वन्तं तं ब्राह्मणं दृष्ट्वाऽधिकं प्रीतिभागभूत् । विप्रपार्श्व च गत्वा तमकथयत् -“त्वया दिव्यदृष्टिः प्राप्ता। अधुना समस्तलोकं दृष्ट्वा सर्वेषां नृपाणामवस्था पश्य।”
विप्रेणाऽप्येवं कृतम् । तेन दृष्टं यदनेकनृपा नरकावनावतीव दु:खं सहमानास्तिष्ठन्ति । पुनरप्यवदत् कुण्डधारः -“ त्वया मद्भक्तिः कृताऽस्ति । अतो - दुःखफलाद् राज्यादिसुखान्न तव कल्याणमस्ति, इति विचिन्त्यैव तन्न मया तुभ्यं दत्तम् । पश्यैतेषां लोकानां दुर्दशाम् । तेषां कृते पिहितान्येव सन्ति स्वर्गद्वाराणि । अत एवं दृष्ट्वा न राज्यादिसुखं के नाऽपि जनेनाऽभिलषणीयम् ।” ब्राह्मणोऽपि कुण्डधारं प्रणम्य गद्गद्स्वरेणाऽवदत् -“अहो! कियानयमुपकार: ? लोभाभूितेन मया न त्वत्स्नेहो ज्ञातः । अहं तु निर्गुणशेखरोऽस्मि। भो देव! क्षमस्व मे मन्तुम् ।” इति। ___ एवं कथांसमाप्य भीष्मपितामहःप्राह - “स्वकीयतपोबलेन सब्राह्मणश्चतुर्दशलोकेषु भ्रमणार्थं शक्तोऽभवत् । अतो धार्मिक एव सर्वत्र पूज्यो न तु धनिकः।
७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org