________________
धनं वाञ्छसि ? तदनुरूपमहं दास्यामि।”
मणिभद्रस्यैतत्कथनं श्रुत्वा कुण्डधारश्चिन्तयति - क्षणमात्रेण म्रियते जनः । धनेनैव स 'सुखीकर्तुं न मया शक्य: । अतो 'भूयात् तस्योद्यमस्तपसि' एतदेव शोभनम् ।' इति विचार्य मणिभद्रं प्रति प्राह -“भो देव! एतस्मै ब्राह्मणाय नाऽहं धनमिच्छामि । रत्नमौक्तिकादिभिर्भूतां पृथ्वीमपि न वाञ्छामि । किन्तु, ‘स धर्ममर्तिभूयात् ' एवं वरं याचे।” । ___ 'एष कुण्डधारोऽधिकं मार्गयति । एतावत्तु न दातुमुचितम्', इति विमृश्य मणिभद्र: कुण्डधारं प्रति प्राह - " मित्र! धर्मादपि राज्यादिसुखमेव लभते जनः । तत्तु त्वद्भक्ताय प्रथममेव ददामि।अत: किमत्र विचारणीयम् ? अपरं च, राज्यादि सुखंभुञ्जानस्य तस्ययावच्चिन्तादिकारणं तदप्यहमपसारिष्यामि ।कथय, एतावता प्रसन्नस्त्वं न वा ?।"
एतच्छ्रुत्वा कुण्डधारो व्याकुलोऽभूत् । ‘परिश्रमं विना वैभवं भुञ्जानस्या-ऽध:पातोऽवश्यं भावी'ति विचिन्त्याऽवदत् -“ न न । मद्भक्ताय नाऽहं धनं राज्यं वा दातुमुत्सहे । कृपया तं धार्मिकं कुरुध्वम् ।”
कुण्डधारस्यैतत् कथनं श्रुत्वा निकटस्थिता: सर्वे देवा: प्रसन्ना अभूवन् । मणिभद्रेणाऽपि प्रसन्नीभूय वरो दत्तः - “सुष्ठ! एष त्वद्भक्तो ब्राह्मणो धार्मिको भवतु।”
इत:, पृथिव्यां स ब्राह्मण: प्रभूतश्रमे कुर्वत्यपि दरिद्र एव स्थितः । तेन स शोकाकुलो बभूव । मनसि च चिन्तयामास - तेन जलधरदेवेन कथितं यत् कृतघ्नतातुल्य: पापो नाऽस्ति। तथाऽपि नाऽद्यपर्यन्तं तेन मदर्थं किञ्चिदपि कृतमस्ति । अतोऽलं प्रयत्नेन । अधुना तु वनं गत्वा तप: कर्तुमुचितम्।' ___ एवं निराशीभूय देवकृपया च स विप्रो धर्मपरायणोऽभूत् । तत्र वने स देवानभ्यागतांश्च प्रपूज्यैव यच्छेषं कन्दफलादि वर्धते तद् भक्षयति। कियता
कालेन तत् त्यक्त्वा पर्णानि भोक्तुमारब्धानि। पश्चात् तान्यपि परित्यज्य जलेन निर्वाहं कर्तुं लग्नः । अन्ततो गत्वा वायुभक्षणमात्रेणैव स जीवितं निर्वहति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org