SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ तेषां साहित्यप्रसादलेशमत्र प्रस्तौमि। श्रीमत्स्तम्भनपार्श्वनाथभगवन्! लग्नं मनो मे त्वयि तृप्तिं याति तथाऽपि तच्च तरलं नाऽद्याऽपि सम्मूर्च्छितम् । तन्नाथ! त्वरया कृपैकसुधया मां सिञ्च सिञ्च प्रभो! येन त्वन्मयतां गते नु हृदये नाऽऽप्नोमि दुर्वेदनाम् ॥१॥ (श्रीस्तम्भनपार्श्वनाथजिनाष्टकम्) कदाऽहं कादम्बे विमलगिरिशृङ्गारतिलके वसान: सन्तापं त्रिविधमपि तीव्र प्रशमयन् । परात्मान्यात्मानं समरसविलीनं च विदधत् समानेष्ये सोऽहंध्वनितहृदयोऽशेषदिवसान् ॥२॥ वसन् कादम्बारे: परमरमणीये परिसरे स्थितो योगाभ्यासे शमदमसमाधानसुभगे। जगन्नाथ: त्रातश्चरमजिननाथेति प्रलपन् अविश्रान्तं तत्त्वं निरवधि गमिष्यामि हि कदा?|१३|| नमस्ते कादम्बाऽमरनरनमस्याय च नमो नमस्ते कादम्बाऽधरितपरतीर्थाय च नमः । नमस्ते कादम्बाऽवनितलललामाय च नमो नमस्ते कादम्बाऽद्भुतगुणनिधानाय च नमः ॥३०॥ सिद्धक्षेत्रं शरीरं त्रिभुवनतिलकं मुख्यशृङ्गं शिरो मे बाहुस्तालध्वजाद्रिः प्रथम इह तथा हस्तिसेन: परोऽयम् । पुण्या शत्रुञ्जयेयं शमदमलहरी ध्यानयोग: कदम्बो ज्योतिष्मानन्तरात्माऽप्यथ जयति तनौ नाऽस्ति किञ्चिद्वहिर्मे॥३३॥ (श्रीकदम्बगिरितीर्थराजस्तोत्रम् ) (१९९३तमेऽब्दे जामनगरचतुर्मास्यामेकस्मिन्नेव दिवसे रचितं चतुस्त्रिंशच्छ्लोकमयमेतत्स्तोत्रं पठित्वाऽतीव प्रमुदितैः सूरिसम्राभिः पूज्याचार्यश्रीसागरानन्दसूरीश्वराणां समक्षमत्युल्लासेन कथितं यद् -“पश्यत पश्यत सागरजिन्महाराजा! मम नन्दनेनेदं स्तोत्रमेकस्मिन्नेव दिने विरचित"मिति ।) ५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy