________________
परमपूज्यसङ्घनायकाचार्यश्रीविजयनन्दनसूरिभगवतां
।। गुरुस्तुत्यष्टकम् ।।
-मुनिरत्नकीर्तिविजयः अर्हच्छासनभास्करस्य महत: श्रीनेमिसूरिप्रभोः संस्पर्शेन कृपाघृणेर्यदुदितं नित्यं गुणामोदयुक्। यत्र ज्ञानसुधारसार्थमनिशं भृङ्गायते सन्मनः तं श्रीनन्दनसूरिराजविमलाब्जन्माऽहमद्याऽऽश्रये ॥१॥
सामीप्येन सुधाशनस्य सरित: सन्तापशान्तिर्यथा सान्निध्यं हि तथा यदीयमसुमहत्तापशान्तिप्रदम् । तद्वात्सल्यसुधापरीतममलं कारुण्यपूर्णं तथा
श्रीमन्नन्दनसूरिराजहृदयं भक्त्याऽऽश्रयेऽहं सदा ॥२॥ दर्श दर्शमपांपतिर्निजसुतं पूर्णं ग्रहेशं यथाऽऽनन्दावेशवशात् समुच्छलति यं राशिं गुणानां तथा। श्रीमन्नेमिगुरोर्हदब्धिरतुलं दृष्ट्वा सदाऽऽह्लादते तं श्रीनन्दनसूरिचन्द्रममलं नित्यं ह्युपासे त्रिधा ॥३॥
श्रीमन्नेमिगुरोः कृपाजलमुचो वृष्ट्या यदीया मतिभूता पल्लविता जिनागमरह:पारङ्गता चाऽभवत् । एतादृङ् मतिमान् कदाग्रह-मद-व्याजादिमुक्तो महान् यावच्चन्द्रदिवाकरौ जयतु स श्रीनन्दन: सूरिराट् ॥४॥
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org