________________
।। गुरुगुणगीतिः ॥
-विजयशीलचन्द्रसूरिः
वन्दे नन्दनसूरिं धन्यं
जन्मशताब्दीशुभवेलायां सकलसङ्घसन्मान्यम्.... सकलसदुपमापात्रममात्रं गुरुगुणमण्डितगात्रं
अनुभावयति नु यत्सान्निध्यं जङ्गमतीर्थमनन्यम्.........१ निर्दम्भं निर्दशं निर्मलहृदयं वीतद्वेषं ।
परिणतप्रज्ञं गुण-गुणिरागाङ्कितमानसमजघन्यम्........२ निज-परभेदविहीनमदीनं शासनसेवापीनं
गुर्वाज्ञाधीनं विबुधानां निवहे नितरां मान्यम्.......... ३ यत्स्वर्गारोहणभूमौ खलु नन्दनवनसत्तीर्थं
निर्मितवन्तो भक्तजनास्तं वन्दे गुरुमूर्धन्यम्........... ४ सम्यग्ज्ञानप्रदायक! गुरुवर! परमदयालो! भगवन्!
कुरु कुरु द्राक् शुभशीलसनाथं मामथ पशुमिव वन्यम्....५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org