________________
-
॥ गुरुवन्दना ।।
-मुनिधर्मकीर्तिविजयः
सुतेज:सम्पन्नं मधुरवदनं नेत्रयुगलं कृपावृष्टिं वर्षद् गुरुगुणयुता गीश्च शुभदा । मुदा यस्याऽहं तं जिनवरमत-क्षेमनिरतं गुरुं नेमिं सूरिं शुचिमतिनिधिं स्तौमि सुतराम् ॥१॥
(शिखरिणीवृत्तम्) पूज्य: श्रीउदयाभिध: शममय: पूज्यं सदा संस्तुवे पूज्येन प्रहतोऽशुभावलिचय: पूज्याय हस्ताञ्जलि: । पूज्याच्च प्रसृतं विधानममलं पूज्यस्य धैर्यं परं । पूज्ये निर्मलदर्शनं सुचरणं भो: पूज्य! सौख्यं कुरु ॥२।।
(शार्दूलविक्रीडितवृत्तम्) प्रपञ्चमदवर्जितो निखिलसङ्घशान्तिप्रदः परास्तरिपुसंहतिः शमदमैस्तपोभिस्तथा। प्रचण्डमतिवैभवै: विजितवादिवृन्दारको गुरुर्जयतु नन्दनः प्रवरसाधुसन्नायकः ॥३॥
(पृथ्वीवृत्तम्)
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org