________________
-
--
श्रीपार्श्वनाथजिनगीतिः॥
भवत: पार्श्वजिनो मां पातु
याचेऽहं कियदपि वरदानं कृपया मे स ददातु...... भवविस्तरणं जिनविस्मरणं द्वयमपि मम निर्वातु
___ अनिशं पार्श्वस्मृतिजलबलत: कर्ममलो मे यातु.....१ चिरविस्मृतनिजरूपस्मरणा-नुभवं शीघ्रं रातु
___ वीतरागदर्शनविरहो मम नहि नहि भवतु च जातु....२ तव चरणरजःकणभूषणमिह शिरसि सदा मम भातु
करुणाशील! तवैवाऽहं जिन! ओमिति मामाख्यातु..३
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org