________________
श्रीनेमिनाथजिनगीतिः ॥
nivAShahir
भगवन्! हृदयं मेऽद्य विषण्णं नेमिजिनेश्वरचरणासन्नं भ्रान्त्वा तत्तु निषण्णम्......
सर्वजनानुद्धारयसि त्वं पापात् संसाराच्च
ख्यातिमिति श्रुत्वा बहुजनतो जातं तदतिप्रसन्नम् आत्मोद्धारार्थं बद्ध्वाऽऽशां तत् त्वां तत आयातं किन्तु न जाने केन हेतुना तत्कार्यमसम्पन्नम्
पृच्छति तत् साक्रोशं किं मम भव्यत्वं नहि पक्वं ?
पापलीनता किं तीव्रा मे ? पुण्यं किमुत विपन्नम् ?' ......३ नेदं दृढप्रहारी नो वा-ऽर्जुनमाली न जमालि: स्यादवगणना तस्य तदपि यदि तत् किं न स्यात् खिन्नम् ? ।
पशवोऽप्युद्धरणीया: स्वामिन्! तव चित्ते प्रतिभान्ति
'उद्धर्तव्यो नृपशुरयमपि' किमु तव मनसि न लग्नम् ? ......५ अथवा हृदय! विषादशीलतां त्यक्त्वा, धृत्वा धैर्य जिनपति-करुणावृष्टि-प्रतीक्षा-करणे तिष्ठ निमग्नम्
ww
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org