________________
श्रीनमिनाथजिनगीतिः ॥
अधुना नमिजिनचरणौ शरणं
अद्यावधि स्वच्छन्दतयाऽहं कृतवान् विभुविस्मरणम्... निर्ध्वस्ताध्यवसायवशेनाऽऽदृतवाननर्थकरणं उन्मत्तेन च विहितं न मया हितवाक्यानां श्रवणम्......१ परमप्रसन्नोऽहमभूवं बत कृत्वाऽनिष्टाचरणं दुर्गतिभीरपि स्पृशति न चित्तं कीदृग् मोहावरणम्!.....२ पापं पापत्वेन क्षणमपि क्वचिदपि कुरुते त्रसनं चिन्तयामि धाष्ट्येन तदा जिन-कृतबहुदुष्टोद्धरणम्....३ कयदेवं हे तात! तवाऽग्रे स्वीयं स्वैरविहरणं वर्णयामि लज्जास्पदमहकं श्रेष्ठमित: स्यान्मरणम्.......४ पापत्यागे प्रथमं पदमिह जिनपदपङ्कजवरणं अधुना दुरितत्रस्तो विदधे स्यान्मम भवसन्तरणम्.......५ आत्मसमर्पणमद्य विभो! तव - कुर्वे, कुरु स्वीकरणं तव कृपया शुभशीलो भूत्वा मोक्ष्ये दुष्टाचरणम्........६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org