________________
श्रीवर्धमानजिनगीतिः॥
वन्दे वीरं गुणगम्भीरं
भववडवानलनीरं.. निष्कलमपि सकलं विकलङ्क योगिवृन्दनासीरं
ध्यानगम्यरूपं जिनभूपं भवजलनिधिपरतीरम्.....१ वेधसमखिलसुमङ्गलसृष्टे-टुरितरजोऽणुसमीरं।
लोकोत्तरशुभमेधसमुच्चैः कुमतिक्षितितलसीरम्...२ विषयपित्तशमनं दोषाणां दमनं ननु गोक्षीरं
चारुदीप्तिभासितजगतीतल-त्रिभुवनमस्तकहीरम्..३ प्रकटितशुचिमङ्गलनिजशीलं विघटितकर्मकरीरं
वीरजिनेश्वरमहमतिधीरं वन्दे स्वर्णशरीरम्........४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org