________________
श्रीचन्द्रप्रभजिनगीतिः ॥ देव! देवानां दयालो! हे विभो! तुभ्यं नम: नाथ! चन्द्रप्रभजिनेश्वर! जय विभो! तुभ्यं नमः। भाग्यहीनैर्नैव लभ्यस्त्वं विभो! तुभ्यं नमः
भागधेयैस्त्वामवाप्तोऽहं विभो! तुभ्यं नमः॥१॥ निष्कलङ्का निष्कलङ्कपथप्रदानेऽपि क्षमा शोभना शर्मप्रदाऽथ च शीतला शशधरसमा। विशदबोधविधानत: सुनिराकृताशेषभ्रमा जयति भुवने देशना ते हे विभो! तुभ्यं नमः ॥२।।
दृष्ट्वोज्ज्वलं वदनं त्वदीयं भवति मम हृदि कल्पना किमिदं सितांशुः किमुत भानुः किमथ कमलं काञ्चनम् । प्रथम: कलङ्की मध्यम: प्रखरस्तृतीयं च क्षयि
वदनोपमं त्वत एव वदनं ते विभो! तुभ्यं नमः ।।३।। स्वामिन्! समस्तसुपुण्यराशेरेक एव निधिर्भवान् अनघात्मसद्गुणरत्नराशेरपि भवानेवेश्वरः। निर्गुणशिरोमणिरहमपुण्य: सेवकोऽस्मि तथाऽपि ते उदरम्भरित्वं कीदृगेतत् ते ? विभो! तुभ्यं नमः॥४॥
शीलन्धरस्त्वं शीलरहितोऽहं विभो! तव सेवकः ज्ञानाकरस्त्वं ज्ञानरहितोऽहं तथा भवदाश्रितः। परमात्मतत्त्वं त्वं तथा बहिरात्मतत्त्वमहं महद् भेदं विदारय शीघ्रमेनं हे विभो! तुभ्यं नम: ५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org