________________
श्रीसुपार्श्वनाथजिनगीतिः ॥ रे मम मनसि मुदा त्वं वसतु देव! सुपार्श्व! सदा तव ध्यानं मम हृदये प्रविलसतु.... मम चित्तं बहुदोषकलुषितं पर्युषितं ननु कमलं त्वदर्शनमधुरामृतसेकात् शुचि भूत्वा प्रविकसतु......१ असमप्रशमरसखचितां निचितां गुणपरमाणुसमूहै: तव मुखमुद्रां वीक्ष्योन्मुद्रां नयनयुगं मम हसतु........२ भीमभवारण्येऽशरणोऽहं लुट्यति मां मोहारि: अधुना स्वीकुर्वे तव शरणं येनाऽसौ सन्त्रसतु.........३ अभयदानशीलोऽसि त्वमिति श्रुत्वां त्वां प्रतिपन्न: दुर्गतिभयभीतेऽथ विभो! तव करुणा मयि उल्लसतु....४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org