________________
-
श्रीसुविधिनाथजिनगीतिः ॥
सत्यं नाऽहं नहि मम किञ्चित् अद्यावधि सर्वं मम' इति मे मतिरतितीव्रा समभूत्
स्वार्थाधीनं किन्तु तदखिलं मनुते मां यत्किञ्चित्........१ लोकसमाराधनचेष्टायां काल: सुमहान् गमितः श्रमितोऽहं बहु तत्र तथाऽपि तोषितवान् नहि कञ्चित्...........२
लोकवास्तवमितीक्षित्वाऽथो तत्त्यागोद्यतचेता:
जिनप! त्वामनपेक्षसहायं श्रितवानहमविपश्चित्.. सुविधिनाथ! मम वारय ममता-महङ्कारमपि दारय 'त्वं मेऽहं तव' इति विश्वासं प्रकटय जिन! मयि भवभित्........४
भक्तिरेव शीलं मम धर्मो भक्तिरेव चिरमस्तु येनाऽहंता-ममतायुगलं त्यजति झटिति जिन! मम हत्...५
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org