________________
मुनि विद्यानन्द-स्तवनम्
(शिखरिणी छंद) स्व. डा. नेमिचन्द्र जैन शास्त्री
यदीयैः तेजोभिः परिणतविचारैः प्रवचनैः, मनोरागद्वेषाः विलयमधिगच्छन्ति जगताम्। शिवं सत्यं दिव्यं सुखदमथ यद्दर्शनमहो, सदा विद्यानन्दो जयतु भुवि सोऽयं मुनिवरः ।।१।। यदीयं व्यक्तित्वं गुणगणनिधानं सुविदितम्, यदीयं पाण्डित्यं बुधजनसमीहास्पदमभूत् । प्रसिद्धिसिद्धिर्वा दिशि दिशि यदीया प्रचलिता, पद-द्वन्द्वे तस्य प्रणतिरनिशं मे विलसतात् ॥२॥
मुनिश्री विद्यानन्द-विशेषांक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org