________________
जान्युआरी - २०२०
श्रीसुखाप्तिजननं दमिताघदोषं संस्फुरद्रुचिरकान्तिसमेतकायम् । कीर्तिधाम हितमात्मविशुद्धये तं ज्ञातपुत्रजिनपं प्रणमाशु धीर ! ॥२॥
(आद्याक्षरैकत्यागात्) त्रयोदशाक्षरी अतिजगती जातिः । स्वः श्रीसुखाप्तिजननं दमिताघमीरां स्फुरद्रुचिरकान्तिसमेतम् । सत्त्कीर्तिधाम हितमात्मविशुद्धं, श्रीज्ञातपुत्रजिनपं प्रणमाशु ॥ ३ ॥
(अन्त्याक्षरद्वयत्यागात्) द्वादशाक्षरी जगतीजातिः । श्रीसुखाप्तिजननं दमिताचं संस्फुरद्रुचिरकान्तिसमेतम् । कीर्तिधाम हितमात्मविशुद्धं श्रीज्ञातपुत्रजिनपं प्रणमाशु ॥ ४ ॥ (आद्याक्षरैक-अन्त्याक्षर द्वयत्यागात्) एकादशाक्षरी त्रिष्टुप्जातौ स्वागता । स्वःश्रीसुखानन्दमिताघदोषमीशं स्फुरत्कान्तिसमेतकायम् । सत्कीर्तिधामात्मविशुद्धये तं श्रीज्ञातपुत्रं प्रणमाशुधीरम् ॥ ५ ॥
(पञ्चमषष्ठसप्तमाक्षरत्यागात्) एकादशाक्षरी इन्द्रवज्रा । सुजननन्दमिताघदोषं रुचिरकान्तिसमेतकायम् । महितमात्मविशुद्धये तं त्र जिनपं प्रणमाशु धीर ! ॥ ६ ॥
(त्र = हे) पंक्तिजातिः । सुजननंदमिताघं रुचिरकान्तिसमेतम् । . महितमात्मविशुद्धं त्र जिनपं प्रणमाशु ॥ ७ ॥
(त्र = हे) अष्टाक्षरी अनुष्टुप् जातिः । स्वःश्री सुखाप्तिजननं स्फुरद्रुचिरकान्तितः । सत्कीर्तिधामशुद्धं श्री- ज्ञातपुत्रं नमाऽऽशुधीः ॥ ८ ॥
अनुष्टुप्जातौ श्लोकः । पथ्यावक्त्रम् ।