SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०२० हावभावप्रधानाभी(भि)-रक्षोभ्यं यस्य मानसम् । सुरीभिर्यस्य देवस्य सोऽक्षोभः सम्पदे जिनः ॥२३॥ पञ्चाक्षीरोधने दक्षः कतकक्षोदसत्()यशाः । दक्षयक्षेशसंसेव्यः श्रीअक्षोभो हरेदघम् ॥२४॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे तमक्षोभं वयं स्तुमः ॥२५॥ संसारमरुदेशान्तः-पद्मकासारसंनिभः । . मरुत्पतिस्तुतो देवो मरुदेवो ददाति शम् ॥२६॥ भव्याङ्गिकामितार्थाली-विश्राणनमरुत्तरुः । मरुदेवः क्षमागारो बोधिदोऽस्तु भवे भवे ॥२७॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे मरुदेवं नमामि तम् ॥२८॥ शारदेन्दुकलाकान्त-तथ्यधर्मप्रकाशकः । धर्मचन्द्रजिनाधीशः कामिताय शरीरिणाम् ॥२९॥ - - पशमराजीव-वनबोधन--नः । वासं तनोतु मच्चित्ते धर्मचन्द्राभिधो जिनः ॥३०॥ . कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे श्रीधर्म संस्तुवे मुदा ॥३१॥ सुरासुरहरैः सेव्य-पदपङ्कजयामलः । दुष्कर्मपङ्कराजीव-बोधनोऽस्तु श्रिये हरः ॥३२॥ योगक्षेमङ्करो देवः सेवाकारिपुरन्दरः । हरनाथजिनाधीशः पापं हरतु मामकम् ॥३३॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे स हरि(रः) पातु वो जिनः ॥३४॥ कन्दर्पमदपाथोज-सङ्कोचनकलाधरः । सायकाक्षजगन्नाथः श्रियं पुष्णातु वो मनः ॥३५॥ कन्दर्पमदपाथोज-सङ्कोचनकलाधरः । सायकाक्षाभिधो देव-श्चित्तं प्रीणातु मेऽन्तरम् ॥३६।।
SR No.520581
Book TitleAnusandhan 2020 02 SrNo 79
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2020
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy