SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७९ तमस्तोमजगच्चक्षुः-सोदरं परमोदरम् । क्षेमन्तनाथमक्षेम-सरःशोषे रवि स्तुवे ॥९॥ कामनाकामकुम्भाभं कामनामविनाशकम् । कामनाथं जिनवृत्त-श्रीयुतं स्तौमि भक्तितः ॥१०॥ त्रिंशत्(द्)धनुस्तनुमानं मानमायाजयक्षमम् । क्षमागुणमणीसिन्धुं श्रीमल्लिं स्तुतितां नये ॥११॥ देवीकुक्षिसरोरत्ना-करणीरमणीयकः । भवतो भवतः पातु श्रीमल्लिः परमेश्वरः ॥१२॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे स श्रीमल्लिर्जिनः श्रिये ॥१३॥ . कलिन्दिकामणीमाला-कूलंकषापतिप्रभः । प्रभावकमलावासो गुणनाथो गुणाय मे ॥१४॥ जितक्रोधमदोन्मत्त-मतङ्गजमहाबलः । बलबुद्धिरमागारो गुणनाथं(थो) श्रियेऽस्तु वः ॥१५।। कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् ।। प्राणिनां सुखदं जज्ञे गुणनाथः स बोधिदः ॥१६।। भयविध्वंसने दक्षो दक्षजारमणाननः । नवीननीतिकान्तार-घनो योगजिनोऽवतु ॥१७॥ क्षमानायकसंसेव्य-पदद्वयसरोरुहः । तनोतु योगनाथोऽयं बोधिबीजं नताङ्गिनाम् ॥१८॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे तं योगजिनपं नुवे ॥१९॥ भवाम्भोधितरीतुल्य-स्तरुणारुणरुग्महः । महासत्त्वोदधिर्देव-विपरीतो विराजते ॥२०॥ महोदययशःस्फूर्ति-शौर्यमुख्यगुणैर्युतः । विपरीतो जिनाधीशो देयान्मङ्गलमालिकाम् ॥२१॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे विपरीतः श्रियेऽस्तु सः ॥२२॥
SR No.520581
Book TitleAnusandhan 2020 02 SrNo 79
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2020
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy