________________
अनुसन्धान-७९
कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे सायकाक्षः स नन्दतु ॥३७॥ सन्तोषकमलादित्यं सन्तोषितजगत्त्रयम् । बोधिरत्नप्रदानेन सन्तोषितं स्तुमो वयम् ॥३८॥ असन्तोषपयोराशि-सेतवे बोधिहेतवे । सन्तोषितजिनेशाय नमोऽस्तु मुक्तिकेतवे ॥३९॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे तं श्रीसन्तोषितं नुवे ॥४०॥ यस्मिन् गर्भस्थिते देवे शत्रवो मातरं नताः । नमामि तं नर्मि नाथं भावावनाममानवम् ॥४१॥ परमब्रह्मकान्तार-स्फुरद्वारा(रा)धरोपमः । श्रीब्रह्मेन्द्रश्चिरं जीयात् हरिब्रह्महरस्तुतः ॥४२॥ भीतजन्तुभवारण्यो-त्तारणे तुरगोपमः । श्रीअरण्यजिनाधीशः शरण्याय भवेन्मम ॥४३॥ जन्तुजाततमःपूर-गोस्वामिसंनिभप्रभः ।। विश्वासभूर्भवात्पायात् स्वामिनाथो दयानिधिः ॥४४॥ चिन्तामणीव यन्नाम कामितानि प्रयच्छति । श्रीप्रयच्छजिनः स्वच्छा-तुच्छकीर्तिर्जयाय मे ॥४५॥ दुःकृ(दुष्कृ)तश्यामतामुक्तं वश्यामरनरेश्वरम् । अनन्तसंविदां कोष्ठं श्यामकोष्ठमभिष्टुमः ॥४६॥ अमन्दानन्दसन्दर्भ-दायिनं ताचिनं सताम् । नन्दिघोषं श्रिया युक्तं घनघोषं स्तुति नये ॥४७॥ शिवतातिर्मनस्तान्तिः प्रशान्तिकरणक्षमः । तन्तनीति सुशान्तीशः शान्ति शान्तिनिशान्तकम् ॥४८॥ प्रणतप्राणिकल्याण-कन्दकन्दलनाम्बुदम् । वन्देऽहं श्रीतमोकन्दं लक्ष्मीकन्दं दयालयम् ॥४९॥ अक्षेमदावपानीयः क्षीणकर्मभरो जिनः । क्षेमन्तो भव्यजन्तूनां क्षेमं दि(वि)तनुते सदा ॥५०॥