SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७८ गुरुदेह(मुख)वर्णनम् सारस्वतीयं पदपद्मयुग्मं, नत्वा कवित्वोचितबुद्धिहेतोः । प्रशस्यलावण्यगुणैकधाम, गुरोविभालङ्कृतमास्यमीडे ॥१॥ कान्त्या निर्जितमदनं, सर्वगुणैः संयुतं गुरोर्वदनम् । मौक्तिकसिताभरदनं, विपश्यतां तेजसः सदनम् ।।२।। जयत्यदो निर्मलकान्तिकान्तं, वक्त्रं त्वदीयं मुनिराज ! भव्यम् । नेत्रच्छलादब्जयुगार्चितं हि, भूयः प्रसन्नीभवता विधात्रा |३|| स्वामिन् ! त्वदाननरुचिं शुचितां दधानां, दृष्ट्वा सरोजमखिलं सुषमासुरम्याम् । जातं जलाश्रयमनूनषडंहिपङ्क्ति-व्याजाद् दधद(त्) [प्र]बलकार्ण्यमहो ! भुवीह ॥४॥ विभो ! त्वदास्यश्रियमाशु वीक्ष्य, चन्द्रः स्वकीयां तनुमुज्ज्वलामपि । चकार कृष्णां स्फुटलक्ष्मणो मिषात्, क्रुधाऽरुणः किं गगने गमित्वा ? ॥५॥ अनुचकार भवद्वदनोद्गतां, मुनिपते ! रमणीयतयाऽद्भुताम् । मुकुर एष ततोऽस्य मुखं रजा, वदति शुद्धिविधानमिषाज्जनाः ॥६॥ गौर्वीयवक्त्रामृतपात्रसुस्थं, वचोमृतं यान्ति जनाः प्रपीय । । इहाऽपि सन्निर्जरतामहो ! त-न्नैव स्मरन्ति स्वरिति प्रसिद्धिः ॥७॥ त्वदास्यलेशोद्भवचारुज्योत्स्ना-निरीक्षिताश्चन्द्रमसा स्फुरन्तीः । तस्मादुदेति स्फुटशेषरक्तो मध्ये शितिम्ना सहित]श्च सोऽयम् ॥८॥ इत्थं स्तुताः श्रीगुरवः सुभक्त्या, मया लसदेहविभाभिरामाः । नम्रीभवन्नाकिकिरीटमाला-पुष्पौघसङ्गन्धितपादपद्माः ॥९॥ -x श्रीविजयसिंहसूरिस्तुतिकाव्यानि स्वस्तिश्रियाश्रितलसच्चरणारविन्दं, नत्वा फलर्द्धिपुरपार्श्वजिनेन्द्रचन्द्रम् । सूरीश्वरं विजयसिंहगुरुं प्रमोदात्, स्तोष्ये नमद्भविककल्पितकल्पवृक्षम् ॥१॥ यद्या (दोर्ध्या) रुणद्धि दिविषत्तटिनीप्रवाहं, यो वा प्रमाणमखिलं प्रकरोति व्योम्नः । निर्माति तारकगणस्य यकश्च सङ्ख्या (ख्यां), सोऽपीह ते गुणगणान् गदितुं न शक्तः ॥२॥
SR No.520580
Book TitleAnusandhan 2019 10 SrNo 78
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy