________________
ओक्टोबर - २०१९
सम्प्राप्तविद्वत्परिषत्प्रतिष्ठः, सुगीष(ष्प)तिर्गीर(त)गुणैर्गरिष्ठः । विहारनि शितलोकरिष्टः, कुर्यात् सुखं मे सुगुरुर्वरिष्ठः ॥८॥ वर्याष्टमीचन्द्रविशालभालं, स्वकीयगत्या जितसन्मरालम् । मिथ्यात्वभाक्सर्वनृणा(णां) करालं, नमामि भक्त्या सुगुरुं त्रिकालम् ॥९॥ प्रणष्टनिःशेषमनोविकारं, सद्देशनाकृ(क्लू)प्तजनोपकारम् । गुरोः सकाश(शा)द् धृतगच्छभारं, ध्यायाम्यहं तं प्रवरावतारम् ॥१०॥ मोक्षाध्वसंसाधनसावधानं, जंजप्यमान(नं) प्रवराभिधानम् । सध्यानलीलाविहितावधानं, चारित्रलक्ष्मी(क्ष्मी) सततं दधानम् ॥११॥ अनेकशास्त्राणि विचारयन्तं, विशुद्धसिद्धान्तरसं धयन्तम् । सुदुर्जयं कामभटं जयन्तं, वन्दामहे गच्छपतिं वयं तम् ॥१२॥ [युग्मम्] भव्यावलीभूरिवनीवसन्तं, तपोमहोभिः सततं लसन्तम् । सुदर्शनं शीलगुणैर्हसन्तं, स्मराम्यहं तं हृदये वसन्तम् ॥१३।। वचोरसैरञ्जितनागराणां, गभीरिमाऽधःकृतसागराणाम् । प्रोत्सर्पदेनःकफनागराणां, पादौ श्रये साधुधुरन्धराणाम् ॥१४॥ सुधीजनैर्निर्मितसत्(त्प्र)शंसः, प्रख्यातवंशाम्बरचारुहंसः । विशालवृक्षावृषत्संदंसः(?), कुर्यात् सुखं साधुजनावतंसः ॥१५।। श्रीमद्गुरो ! तावकवक्त्रशोभया, पराजिता(तो) व्योम जगाम चन्द्रमाः । तत्राऽपि बिभ्यंस्तृणमादधौ मुखे, नो चेत् कुतस्तत्र कलङ्कपङ्कता ? ||१६|| स्पर्द्धा दधानः किल यामिनीशो, वक्त्रेण सार्द्धं तव साधुधुर्य! । कलङ्कपकं समवाप यस्मा-दश्रेयसा(सी?) साधुजनस्य गर्हणा ॥१७॥ विशालचक्षुर्द्वितयीदलाश्रितं, प्रोद्दीप्रदन्तद्युतिक(का)न्तकेसरम् । कनीनिकासद्भमरेण शोभितं, त्वद्वक्त्रपद्यं मुनिराज ! राजते ॥१८॥ विकाशमासादयति स्म शश्वन्, नक्तंदिवं म्लायति नैव कर्हिचित् । तेन त्वदीयेन मुखेन सार्द्धं, साम्यं विधत्ते कथमम्बुजन्मा(न्म) ॥१९॥ त्वदीयवक्त्रं शतपत्रमत्र, प्रभो ! विजाने कमलाश्रयत्वात् ।। जडस्य सङ्गं न करोत्यदः क्वचि-च्वेतश्चमत्कारम(मुपैति तत्र ॥२०॥ उश्म(?) स्तवाऽऽस्यं किल मानसं यं, चक्षुःसरोजद्वितयीविभूषितम् । विशुद्धदन्तच्छलतो यदीयां, सेवां विधत्ते शुचिहंसमण्डली ॥२१॥