________________
अनुसन्धान-७८
कलाकलापातिशयोपशोभितं, तवाऽऽननं चन्द्रमिवाऽवभासते । चित्रं नु मित्रोदयने महीयसी, बिभर्ति शोभां यददः पटीयसीम् ॥१३॥ नीतः स्तुत्या विनीतः सदसि सुरपतिश्लोकगीतः प्रतीतः
___कीर्त्या स्फीतः परीतः प्रवरगुणगणैर्दोषजालाद् बि(वि) भीतः । विश्वश्रोतः प्रपीतः प्रशमरसभरस्वान्तशीतः प्रणीतस्त्वत्सद्सा(ज्ज्ञा)नानुमीतः स्तद्ववि(?)जय चिरं
भूतलेऽद्य(?)व्यतीतः ॥१४॥ इत्थं भक्त्याऽभिभूता गुणप्रभूता विशुद्धतरचित्ताः । श्रीदीप्तिसागराख्याः, प्रसन्नमनसो दिशन्तु मुदम् ॥१५॥
॥ इति श्रीगुरुराजवर्णनम् ॥
श्रीविजयप्रभसूरिस्तुतिकाव्यानि
स्वस्तिश्रियां स्थानन(म)मानसौख्य-प्रदायकं तीर्थपति प्रणम्य । सूरीश्वरं श्रीविजयप्रभाख्यं, प्रमोदवृन्दात् कवयामि काव्यैः ॥१॥ निधौतगाङ्गेयसमानदेहं, निःशेषभव्यावलिपूरितेह[म्] । कपू(y)रसंशुद्धगुणैकगेहं, श्रीमद्गुरुं हृष्टमना भजेऽहम् ॥२॥ स्वाभीष्टसौख्ये वरकल्पवृक्षं, पापान्धकारे दिनकृत्सदृक्षम् । षट्कायरक्षापरिबद्धंकक्षं, भक्त्या नमन्नागरलोकलक्षम् ॥३॥ निराकृताशेषविपद्विपक्षं, तपोग्निसम्प्लोषितकर्मकक्षम् । नारीकटाक्षाक्षतचञ्चदक्षं, नमामि भक्त्या सुगुरुं वलक्षम् ॥४॥ दुर्वादिभिर्नैव कदाऽपि जेयं, वाणीपराभूतघृतादिपेयम् । पापौघकृढुष्टजनेन हेयं, श्रीमद्गुरुं शुद्धमना नमेयम् ॥५॥ स्वर्गापवर्गाध्वनि सार्थवाहः, कल्याणकारस्करनीरवाहः । वचोरसैह(ह)र्षितकर्णजाहः, सदा गुरुर्मे जयतात् सुबाहु(ह:) ॥६॥ स्वकीयवंशे दिनकृत्समानः, प्रदत्तदुर्वादिगणापमानः । अनेकभूमीपतिसेव्यमानः, स श्रीगुरू रातु सदा रमानः ॥७॥