________________
ओक्टोबर - २०१९
वचनरसतां पायं पायं तवाऽमरतां जनाः, शुचिगुणगणान् गायं गायं प्रमोदनिमग्नताम् । भजत सुविधौ स्थायं स्थायं जगज्जनगौरवं, चरणकमलं श्रायं श्रायं प्रयान्ति
सुखास्पदम् ॥३॥ तात ! त्वत्पदपद(य)सेवनविधौ संसक्तचेता अपि,
च - तानुगतां प्रवृत्तिमसकृत् कर्तुं प्रभुना(!)ऽस्म्यहम् । तन्मे मन्तुमहत्त्वमस्ति विभवः सर्वंसहाः स्युस्तथा
____ऽप्येवं चिन्त्य कृपालुतां भजत भो ! मय्याशु मत्वा शिशुम् ॥४॥ त्वत्सत्कीर्त्तिकुमारिकाकरतलक्रीडाघटः पुष्कर
___व्याजाद् राजति किं प्रकाशकरसच्छिन्नाणुभारान्वितः । मन्ये तन्मुखजप्रकाशनिवहस्यैकत्र जातश्रियः
छायाभृत्प्रतिबिम्बमेष चतुरश्रेणीचमत्कारकृत् ॥५॥ तव मनःसरसीरुहसेवना-क्षणमपीह न हातुमशक्नुव(न्?) । मुनिमनोमधुपाः कुशला इवो-चितमुताशु निजार्थकृतो यतः ॥६॥ तव हृदयाम्बु-कुण्डान्-निपीय वागमृतममरतां यान्ति । विबुधा अपीह तदहो !, शङ्के नाऽतः स्मरन्ति स्वः ॥७॥ एतत् किं शशिमण्डलं ? नहि यतस्तत् सत्कलकं सदा,
किं वा बिम्बमिदं रवेस्तदपि न प्रोत्तापितेजो यतः । इत्थं श्री गुरुराज ! हृष्टहृदयाः संतर्कयन्ते बुधा
व्यो(व्या)लोक्याननमण्डलं गुरुतरं श्रीसुन्दर(रं) तावकम् ॥८॥ निःशेषसद्गुणनिधान ! तवाऽऽननश्री-संस्पर्द्धि पद्मपटलं सकलं प्रकामम् । स्पर्बोद्भवैः समभवद् बत पापपूरै-राजप्रसादविकल(लं) बहुकण्टकं च ॥९॥ मन्य(न्ये) त्वदीय व[द]नस्य लसद्विभूषा
सम्प्राप्तये कुमुदिनीपतिरेष नूनम् । गत्वा वने प्रवरवृक्षशिखावलम्बी
चक्रे तपः सुकुसुमस्तबकच्छलेन ॥१०॥ लिप्सुस्त्वदीयविलसद्वदनानुकारं, स्थ(स्था)णोः शिरःस्थित उषाधिपतिः प्रकामम् । मन्ये तपःकृशतनुं सुरशैवलिन्या-स्तीरे चिरं निवसति स्म हठात् [त]पस्वी ॥११॥ तव प्रभो ! श्रीगुरुराज ! भास्वद् - वक्त्राम्बुजं चन्द्रमिवाऽवलोक्य । सद्भक्तिभाजा(जां) भविनां प्रमोदा - दक्षीणि साक्षात् कुमुदन्ति कामम् ।।१२।।